SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५१८ नारायणविरचितदीपिकासमेता- [९ खण्डः ] दकारः । त्वग्यकारस्तेन रक्षोन्नविशादायेति सिद्धम् । वेलो मकारः प्रीतिकारश्च सामरा सोकारा ज्योती रेफस्तीक्ष्णा पकारः । अग्निसंयुता रेफसंयुता । श्वेता सकारोऽ. नुस्वारसंयुता सानुस्वारा कामिकापञ्चमस्तकारात्पञ्चमो नकारः। लान्तो वकारः । तान्तान्तो दकारस्तस्यान्तस्थस्तस्यान्तो दः । धान्तो नकारः । स नकारः सानन्तोऽनन्तेनाऽऽकारेण सहितः । दीर्घस्वरेणाकारेण युतो वायुर्यकारः सूक्ष्मेणेकारेण युतो विषो मकारः । कामिका तकारः । पुनः स एव रुद्रेणैकारेण युक्ता । अथो अथानन्तरं स्थिरा जकारस्ततः सः सकारात्पर एकारस्तेन मधुरप्रसन्नवदनायामिततेजस इति सिद्धम् । अत्र संधि कर्तव्यः । तापिनी वकारः । दीर्घयुता भूलकारः । अनिलो यकारः । तेन बलायेति सिद्धम् । अनन्तग आकारगोऽनलो रेफः । नारायण आकारस्तदात्मकः कालो मकारः प्राणो यकारस्तेन रामायेति सिद्धम् । अम्भो वकारः । विद्ययेकारेण युतं सहितम् । पीता षकारो रतिर्णकारस्तेन युता संयुक्ता लान्तो वकारो योन्यैकारेण युक्तस्तेन विष्णव इति सिद्धम् । अन्ततोऽन्ते नतिनःशब्दः ॥ ५ ॥६॥ ॥ ७ ॥ ८ ॥९॥ सप्तचत्वारिंशदो गुणान्तः सगुणः स्वयम् ।। राज्याभिषिक्तस्य तस्य रामस्योक्तकमाल्लिखेत् ॥ १० ॥ एवं सप्तचत्वारिंशद्वर्णो मालामन्त्रः । अर्णो वर्णः । गुणान्तः सगुणः स्वयम् । स्वयं सगुणोऽपि भक्तानां गुणान्तस्त्रैगुण्यनाशको मोक्षदत्वात् । अथवा गुणान्तो बीनत्रयान्तः सगुणो बीजत्रयादिः । तदुक्तम्---"तारवाक्कामबीजैश्च संपुटं प्रजपेदमुम्" इति । राज्याभिषिक्तस्येत्यनेनास्य स्वातन्त्र्यमपि सूचितम् । तद्यथा--"मुनिः पितामहश्छन्दः सत्यनुष्टुप्च देवता । राज्याभिषिक्तो रामोऽस्य बीजं शक्तिर्यथा पुरा ॥ तारवाकामबीजैश्च संपुटं प्रजपेदमुम् । शिरस्याननवृत्ते च भ्रूमध्येऽक्षिद्वयेऽपि च ॥ श्रोत्रयोणियोश्चैव गण्डयोरोष्ठयोरपि । दन्तयोरास्यदेशे च दोष्पत्संध्यग्रकेषु च ॥ कण्ठे हृदि स्तनद्वंद्वे पार्श्वयोः पृष्ठदेशतः । जठरे चाप्यधिष्ठाने गुह्ये वर्णान्प्रविन्यसेत् ॥ सप्तर्तुसप्तदशषड्दसंख्यैः षडङ्गकम् । उन्निद्रनीलकमलामलकान्तिमब्जचापासिवाणकरमम्बुनपत्रनेत्रम् ॥ १ घ. विशदा । २ घ. 'स्यासन' । ३ च. 'वृत्तौ च । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy