SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [९ खण्डः ] ५१६ नारायणविरचितदीपिकासमेता- इति तेषां ध्यानम् ॥ २॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ इति दीपिकायामष्टमः खण्डः ॥ ८ ॥ एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ नारसिंहं च वाराहं लिखेन्मत्रद्वयं तथा ॥ १ ॥ दिक्षु नारसिंहं विदिक्षु वाराहं लिखेत् ॥ १ ॥ नारसिंहमुद्धरति___ कषरेफानुग्रहेन्दुनादशक्त्यादिभियुतः ॥ यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ॥ २॥ कषेति । कषयोगे क्षः । ततो रेफस्ततोऽनुग्रह औकारः । इन्दुरनुस्वारः । नादोsनुस्वारानन्तरो रवविशेषः कांस्यचरमध्वनिनिभस्ततः शक्तिर्माया । आदिशब्दाद्ब्रह्म शान्ताख्यं क्षौमिति रूपम् । अस्य स्वातन्त्र्यमाह-य इति । ग्रहकर्मणि भूतादिविमोक्षणे मारणकर्मणि शत्रुक्षयादौ । अस्यादिकं यथा "ऋषिरत्रिश्च गायत्री च्छन्दः श्रीनृहरिः प्रभुः ॥ देवता दीर्घयुग्वीजेनैवाझं कल्पयेत्सुधीः । ध्यानं पूर्ववदेवास्यैकलक्षं प्रजपेन्मनुम् ॥ तद्दशांशं हुनेत्सम्यग्वृताक्तैः पायसैः शुभैः । अर्चाहोमादिकं सर्वमस्य पूर्ववदाचरेत् ॥ मन्त्रराजवदेवास्य प्रयोगानपि साधयेत् । ढल्लेखासंपुटे केचित्संगिरन्ते मनुं त्विमम्" इति ॥ २ ॥ वराहबीजमुद्धरति अन्त्योऽर्धीशयुतो बिन्दुनादबीजं च सौकरम् ।। हुंकारं चात्र रामस्य मालामत्रोऽधुनेरिता ॥ ३ ॥ अन्त्य इति । अन्त्यो मातृकाकेवलवर्णान्त्यो हकारः । अर्धीश ऊकारस्तेन युतो बिन्दुनादैबिन्दुनादशक्त्यादिभिरपि युतः । सौकरं सूकरस्येदम् । क्रोधं कोणाग्रान्तरेवित्यत्रोक्तं क्रोधबीजमुद्धरति–हुंकारं चात्रेति । अत्र यन्त्र उक्तस्थाने हुंकारं च लिखेत् । यद्वा वर्णात्मकं दशाक्षरराममन्त्रबीजमाह-हुंकारं चात्र रामस्येति । रामस्य दशाक्षरस्य हुंकारं ह्रस्वोकारबिन्दुसहितं हकारं बीजं जानीयात् । दशाक्षरो यथा १ घ. भौमिति । २ क. ख. च. "न्त्योऽर्वोश'। ३ च. अन्त्यः केवलमातृवर्णा । ४ घ. 'केनवः। ५ च अर्वीश। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy