SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेता- [७ खण्डः ] यम् । मुक्तांशेनेति । द्वादशांशेन तत्र वृत्तमने वक्ष्यति । बायोति । बाह्यं यत्पत्रवृत्तं तस्य यदन्तरालं तस्य मानेन सुधीः केसराग्रेषु केसरवृत्ताग्रे निधाय सूत्रादिमिति शेषः । विधिना परित उभयतः पत्रमध्यसूत्राणामिति शेषः । अर्धनिशाकराँल्लिखित्वा संधिसं. स्थान्यर्धनिशाकरसंघिसंस्थानि चत्वारि सूत्राणि तत्र पातयेदिति संबन्धः । मानं यद्विधिनेतिपाठे बाह्यवृत्तान्तरालस्य यन्मानं तेन विधिना तेन मानेनेत्यर्थः । तत्रायं विधिः । पत्रवृत्तान्तरालमितसूत्र केसरवृत्तदिक्सूत्रसंपाते संस्थाप्य तद्दिक्सूत्रोभयतः पत्रवृत्तस्पर्शिकेसरवृत्तलग्नान्तद्वयमर्धचन्द्रं लिखेदेवं चतुर्पु दिक्सूत्रे चतुर्षु कोणसूत्रेषु च कृतेऽष्टार्धचन्द्रा जायन्ते । एतच्च केसराग्रेष्विति बहुवचनादेव लभ्यते । यतोऽष्टपत्रमध्येऽष्टौ केसरस्थानानि ततोऽष्टदलसिद्धिरिति । तेनार्धचन्द्रयोः परस्परसंपातरूपाष्टसं. धिषु संमुखीनयोर्द्वयोरेकैकं सूत्रं दद्यात् । एवमष्टपत्राणामप्यष्टौ सीमारेखा उत्पद्यन्ते संध्यधोवृत्तिसीमोरखोभयतः स्थितोऽर्धनिशाकरांशो मार्जनीयस्तदृक्तम् - "दलप्रसिद्ध्यै दलमध्यसंधौ निधाय सूत्रं तु दलान्तराले । दलान्तरालोभयसक्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिध्येत्” इति ॥ अन्यत्रापि "उक्तक्षेत्रस्य दिक्सूत्रं संस्थाप्यान्यद्विमृश्य तु । प्रसार्य कोणसूत्रे द्वे वृत्तदिङ्मत्स्यमानतः ॥ निधाय केसराग्रेषु दलसंधींस्तु लाञ्छयेत् । पातयित्वा तु सूत्राणि तत्र पत्राष्टकं लिखेत् ॥ चतुर्थ वृत्तमाह-दलेति । दलाग्राणां यन्मानं बहिस्त्यक्तद्वादशांशरूपं तन्मानं चतुर्थ वृत्तं कुर्यात् । दलाग्रकरणप्रकारमाह-तदिति । तदन्तराले कृतदलाप्रवृत्तान्तराले तन्मध्यसूत्रस्य पत्रमध्यसूत्रस्योभयतो बाह्यहस्तेन समन्ततो दिक्षु विदिक्ष्वपि दलाप्राणि सुधीरालिखेदिति संबन्धः । तत्र प्रकारः । चतुर्थवृत्तान्तराले पत्रमध्यसूत्रस्योभयतः संधिसूत्रस्याग्रे सूत्रादि निधार्य पत्रस्पृष्टपत्रमध्यवृत्ततो दलाग्रवृत्तपत्रसूत्रसंपातपर्यन्तं सूत्रद्वयं दद्यात्तत्सूत्रप्रान्त एकः पत्रसीमासूत्रान्तस्पर्शी द्वितीयो दलानमध्यसूत्रसंपातस्पर्शी सूत्रद्वयाग्रभागश्च परस्पराभिमुखो यथा स्यादित्येतदर्थ बाधहस्तेनेत्युक्तम् । ततः कर्णिकावृत्तं त्यक्त्वा बाह्यसूत्राणि वृत्तानि पद्मपत्रमध्यरेखाश्च सर्व सम्यांमार्जयेत् । यथाऽष्टदलं पद्मं दृष्टिमनोहरं दृश्यते । केसरप्रकारमाह-दलेति । कणिकावृत्तस्पर्शिसंधिगतपत्रसीमासूत्रान्तराले पत्रमध्यसूत्रस्योभयत एकैकस्मिन्पत्रे द्वौ द्वौ केसरौ कर्णिकावृत्तलग्नमूलौ केसरवृत्तलग्नाग्रावग्रे किंचित्स्थूलौ परस्परसंमुखौ कुर्यात् । उपसंहरति-एतदिति । यत्र कुत्रापि पङ्कजं कुर्यादिति वक्ष्यति तत्रायं प्रकारो ज्ञेयः पीठं १ . मिति स । २ घ. उ. य म । ३ घ. उ. ज्ञेय इति । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy