SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [७ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । केसरेष्वष्टपत्रे च वर्गाष्टकमथाऽऽलिखेत् ॥ तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥ ६ ॥ क्रोधमिति । क्रोधो हुंकारं चेति वक्ष्यमाणो हुंकारः । 'हुंक्रोधबीजं कवचम्' इति लक्ष्मीकुलार्णवे । तं क्रोधं कोणाग्रेषु कोणान्तरेषु च लिख्य लिखित्वा । अभितः परितः क्रोधोभयपार्थेषु गिरं सारस्वतबीजमैमिति लिखेत् । वृत्तत्रयं षट्कोणस्योपर्येक वृत्तं मध्ये केसरोपरि चैकं पत्राग्रे चैकमष्टपत्रसहितं सरोज कमलं विलिखेत्स्वरान्केसरेषु च द्विशो विलिखेत् । अष्टपत्रे च स्वरोपरि वर्गाष्टकं कचटतपयशल्ला(ळा)ख्यं लिखेत्तेषु पत्रेषु वक्ष्यमाणमालामन्त्रवर्णानूमिसंख्यया षट्संख्यया विलिखेत् । ___"प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमोहने । जरामृत्यू च देहस्य षडूमिरहितः शिवः" इत्यूर्मयः ॥ षट्संख्ययेति वक्तव्य ऊर्भिग्रहणं प्रत्येकं वर्णानामेकैकोर्मिनाशकत्वसूचनाय । कमललेखनप्रकारो यथा--शारदातिलके "पद्मक्षेत्रस्य संत्यज्य द्वादशांशं ततः सुधीः । तन्मध्यं विभजेद्वत्तस्त्रिभिः समविभागतः ॥ आद्यं स्यात्कर्णिकास्थानं केसराणां द्वितीयकम् । तृतीयं तत्र पत्राणां मुक्तांशेन दलाग्रकम् ॥ बाह्यवृत्तान्तरालस्य मानं यद्विधिना सुधीः । निधाय केसराग्रेषु परितोऽर्धनिशाकरान् ॥ लिखित्वा संधिसंस्थानि तत्र सूत्राणि पातयेत् । दलाग्राणां च यन्मानं तन्मानं वृत्तमालिखेत् ।। तदन्तराले तन्मध्यसूत्रस्योभयतः सुधीः । आलिखेबाह्यहस्तेन दलाग्राणि समन्ततः ॥ दलमूलेषु युगशः केसराणि प्रकल्पयेत् । एतत्साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः" । अस्यार्थः । पद्मकारणमाह-पोति । तत्र षट्त्रिंशत्पदात्मकं पद्मक्षेत्रं तदिक्सूत्रद्वयेन कर्णसूत्रद्वयेन चाष्टधा भेदितं वर्तते तान्येव सूत्राणि पत्रमध्यसूत्राणि । तत्र प्रकारः । पद्मक्षेत्रायामं द्वादशधा विभज्यकांशं सर्वतो बहिम्त्यजेत्ततो दश भागान्षोढा विभज्य मध्ये सूत्राणि संस्थाप्यांशद्वयेनैकं वृत्तं तदुपर्यशद्वयेनापरं तदुपर्यशद्वयेनान्यदिति वृत्तत्रयं कुर्यात् । आद्यमित्याद्युक्तिस्तु वक्ष्यमाणानामङ्गावरणादीनां स्थानसूचनायेत्यवधे १ क. रे चाष्ट । २ घ. गाह्ना । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy