________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ६ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । ५०७ दिवन्द्याप्तिसतीप्रियः' इति । स्वपुरमयोध्यां तद्धि स्वपुरं न भरतस्य तेन न्यासतया पालितत्वात्तदेव जगाम न तु पूर्वी दिशं हनुमद्वारा भरतस्य भक्त्यतिशयदर्शनात् । तैर्वानरविभीषणादिभिः सह ॥ ६ ॥ अभिषिक्तदशां वर्णयति
ततः सिंहासनस्थः सन्द्विभुजो रघुनन्दनः ॥
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ७ ॥ सत इति । सिंहासनस्थो माहाराज्येऽभिषिक्तः । द्विभुनो मनुष्याकारविडम्बनः ॥ ७ ॥
मुद्रां ज्ञानमयीं यामे वामे तेजःप्रकाशनम् ॥
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ८ ॥ यामे दक्षिणे वाही ज्ञानमुद्राम् । तल्लक्षणं तु
"तर्जन्यङ्गुष्ठको सक्तावग्रतो हृदि विन्यसेत् ॥ वामं हस्ताम्बुजं वामे जानुमूर्धनि विन्यसेत् ।
ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य वल्लभा" इति ॥ वामे तेजःप्रकाशनं धनुर्धत्वा । यद्वा प्रकाशनं तेजः पुस्तकाख्यां मुद्रां धृत्वा वाममुष्टिं स्वाभिमुखी कृत्वा पुस्तकमुद्रिकाव्याख्याने निरतः स्थितः । व्याख्यानमुद्रा तु
"दक्षिणाङ्गुष्ठतर्जन्यावग्रलग्ने पराङ्गुलीः । प्रसार्य संहतोत्ताना एषा व्याख्यानमुद्रिका ॥ रामस्य च सरस्वत्या अत्यन्तं प्रेयसी मता।
ज्ञानव्याख्यापुस्तकानां युगपत्संभवः स्मृतः ॥ धनुर्मुद्रा तु—“वामस्य मध्यमाग्रं तु तर्जन्यग्रे नियोजयेत् ।
अनामिकां कनिष्ठां च तस्याङ्गुष्ठेन पीडयेत् ॥
दर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता" इति ॥ ८ ॥ एवं देवस्तुतिमारभ्याभिषेकान्तं श्रीरामचरितं निरूप्य पुनः पूर्वोक्तं षट्कोणमनुसृत्य यन्त्रस्थदेवता आवरणपूजार्थमाह
उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ धृतः ॥
हनुमन्तं च श्रोतारमग्रतः स्यात्रिकोणगम् ॥ ९ ॥ उदग्दक्षिणयोरिति । स्वस्य रामस्य न तु पूजकस्य । धृत इत्यत्र धृतचामराविति पदलोपो द्रष्टव्यः । तदुक्तम् - "उभौ भरतशत्रुघ्नौ पार्श्वयोधृतचामरौ" इति । यद्वा धृङ् स्थैर्ये व्यत्ययेन परस्मैपदं छान्दसः शब्लुक् । धृतः स्थिरीभूय तिष्ठतः । हनुमन्तं
१. क. 'नस्थस्तु द्विभु । २ क. काशिनीम् ।
For Private And Personal