SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५०६ नारायणविरचितदीपिकासमेता - [ ६ खण्ड: ] ततः पश्चाद्वर्षापगमे शरदि प्राप्तायां हरीन्वानरान्दिगन्तेभ्य आहूयाऽऽदरेणाऽsकार्य सर्वेषु शृण्वत्सु त्वाह तुशब्देन मासादवक्शुद्ध्यनानयने राजदण्डः सूचितः । हे आशाविदो दिकुशलाः । अद्याधना शु शीघ्र गच्छत । आशु मासादव मैथिलीमादाय गृहीत्वा रामाय ददत | श्वाशु | सरूपतो वा संदेशतो वाऽऽश्वादायाऽऽशु ददतेत्यर्थः । शुशब्द आश्वर्थे । ददत 'शु' 'आशु' इति पदच्छेदः । यथा शुनाशीरः श्वशुर इति । ततोऽनन्तरं हनुमानरिपुत्रोऽधि समुद्रं ततार तीर्णवांस्तीर्त्वा लङ्कां समाययौ । कथाविस्तरस्तु वाल्मीकीयाद्बोद्धव्यः ॥ १ ॥ २ ॥ Acharya Shri Kailashsagarsuri Gyanmandir सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् ॥ स्वयमागत्य रामाय न्यवेदयत तत्त्वतः ।। ३ ।। अशोकवनिकायां वाटिकायां दृष्टाऽसुरानक्षकमारादीन्हत्वा पुरं लङ्कां पुच्छाग्निना दग्ध्वा तथा स्वयं रामं प्रत्यागत्य रामाय स्वयं स्वमुखेन तत्त्वतो न न्यूनं नाप्यधिकं न्यवेदयत नितरां बांधितवान् । द्विः स्वयंपदमसत्यवाशङ्कानिवृत्त्यर्थम् । स्वयं कृतं दृष्टं वाऽसंदिग्ध भवति ॥ ३ ॥ तदा रामः क्रोधरूपी तानाहूयाथ वानरान् ॥ तैः सार्धमादायात्रांच पुरा लङ्कां समाययौ ॥ ४ ॥ तदा तत्क्षणमेव मध्याह्नऽभिजिन्मुहूर्ते क्रोधरूपी क्रोधं रूपयति निरूपयत्यन्यान्दर्शयति तद्धर्मा वस्तुतस्त्वक्रोध एव 'नित्यः स्वच्छाशयः' इत्युक्तेः । तैः सार्धं लङ्कां समाययौ । समाद्भ्यां समद्रोपदर्शन सेतबन्धः सूचितः । किं कृत्वाऽस्त्रानेकोनपञ्चाशतः प्रयोगमन्त्रानेकोनपञ्चाशतः संहारमन्त्रान्विश्वामित्रोपदिष्टान्कृशाश्वसुतानादाय गृहीत्वा ॥ ४ ॥ तां दृष्ट्वा तदधीशेन सार्धं युद्धमकारयत् ॥ घटश्रोत्रसहस्राक्ष जिद्भयां युक्तं तमाहवे ।। ५ ।। तामिति । तां लङ्कां दृष्ट्वा तदधीशेन रावणेन सार्धं युद्धमकारयत्कृतवान्कारितषान्वानरैरिति वा । घटश्रोत्रः कुम्भकर्णः । सहस्राक्षजिदिन्द्र जिन्मेघनादः || ९ || हत्वा विभीषणं तत्र स्थाप्याथ जनकात्मजाम् ॥ आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ ६ ॥ तत्र लङ्कायामाधिपत्येन स्थाप्य स्थिरीकृत्य कीर्तिस्तम्भमिव तत्राऽऽरोप्याथ स्थापनानन्तरं तेनैवाऽऽनायितां जनकस्याऽऽत्मतृप्तस्याऽऽत्मजामादाय सर्वदेवादिसमक्षं वह्निपूतां गृहीत्वाऽङ्कस्थितां न तु लक्ष्मणादिसमीपस्थां कृत्वा । तदुक्तं पाद्मे – 'ब्रह्मसूर्येन्द्ररुद्रा १ . ग. घ. छ. 'यात्राणि पु' | For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy