SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेतारुद्राणां शतसहस्राणि जप्तानि भवन्ति गाययाः शतसहस्रं जप्तं भवति प्रणवानामयुतं जप्तं भवति रूपे रूपे दश पूर्वान्पुनाति देशोत्तरानाचक्षुषः पतिं पुनातीत्याह भगवानथर्वशिरोऽथर्वशिरः । सकृजप्त्वा शुचिः पूतः कर्मण्यो भवति द्वितीयं जप्त्वा गाणापत्यमवामोति तृतीयं जप्त्वा देवमेवानुमविशतीत्यों सत्यम् । यो रुद्रो अग्नौ यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश। य इमा विश्वा भुवनानि चाक्लषे तस्मै रुद्राय नमो अस्तु । अद्य पुराणानि चेतिहासपुराणानि तेषाम् । रुद्राणां नमस्ते रुद्रेत्याद्यध्यायानाम् । शतसहस्राणि लक्षमात्रमनन्तानीत्यर्थः । जप्तानि जपितानि भवन्ति । गायत्र्याः शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति । शतसहस्रं लक्षमात्रम् । अयुत दशसहस्रम् । स्पष्टमन्यत् । रूपे रूपे पाठे पाठे प्रतिपाठमित्यर्थः । आत्मानमारभ्य दश दशसंख्याकान्पूर्वान्पित्रादीन्पुनाति पवित्री करोति । दश दशसंख्याकानुत्तरान्पुत्रादीन् । आचक्षुषो यावच्चक्षुर्दशनम् । पङ्तिम् , अपाङ्क्तेयानार्यपङ्क्तिम् । पुनाति पवित्री करोति । इति, अनेन प्रकारेण । आहोक्तवान् । भगवान् , भूतानामुत्पत्त्यादिज्ञानवान् । अथर्वशिर अथर्ववेदः । अथर्वशिरो व्याख्यातम् । अभ्यास आदरार्थ उपनिषदर्थपरिसमाप्त्यर्थो वा । सकृदेकवारम् । जप्त्वा जपित्वा । शुचिः शुद्धः शरीरेण वचसा च । पूतः पवित्रीभूतो मनसा विपूतः । शुचिः पूतस्ततः कर्मण्यः कर्मानुष्ठानयोग्यो भवति । स्पष्टम् । द्वितीयं द्विवारं जप्त्वा जपित्वा गाणापत्यं गणपतेर्भावं सर्वनियन्तृत्वमित्यर्थः । अवाप्नोति प्राप्नोति । तृतीयं त्रिवारं जप्त्वा जपित्वा देवमेव स्वयंप्रकाशमात्मस्वरूपमेवानु त्वरितं प्रविशति तादात्म्येन प्रवेशं करोति । इति, अनेन प्रकारेणोच्यमानम् । ॐ सत्यम् , एतत्सत्यं यथार्थम् । देवं प्रवि. शतीत्युक्तं तं देवमाह । यः प्रसिद्धः । रुद्र उक्तः । अग्नावग्न्यभिमानी । यः प्रसिद्धः । अप्सु , अबभिमानी । अन्तोऽनावप्सु च मध्यः । यः प्रसिद्धः । ओष. धीः , ब्रीह्यादिरूपाः फलपाकान्ताः । वीरुधः क्षुद्रस्थावरोपलक्षितान्निःशेषस्थावरान् । आविवेशाऽऽसमन्तात्प्रविष्टवान् । यः प्रसिद्धः । इमा इमानि विविधप्रत्ययगम्यानि । विश्वा विश्वानि सर्वाणि । भुवनानि स्थानानि । चारूपे , अचीकृपत् । अतिशयेन कृतवानित्यर्थः । तस्मै रुद्राय नमोऽस्तु । स्पष्टम् । इदानीमथर्वशिरोनामनिरुक्तिमाख्यायिकयाऽऽह । अथर्वणः कदाचित्कश्चन शापं ददौ तं शापमाह । अद्या -- १ ग. 'हस्राणि जप्तानि भ। २ घ. दशापरा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy