________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिरउपनिषत् । मूर्धानमस्य स्रंसीर्योऽथर्वा हृदयं च यत् । मस्तिष्कादूर्ध्व प्रेरयत्पवमानोऽथ शीर्णः । तद्वाऽथर्वणः शिरो देवकोशः समुत्थितः । तत्माणोऽभिरक्षतु श्रियमनमथो मनः श्रियमन्नमयो मनो विद्यामन्नमयो मनो विद्यामन्नमयो मनो मोक्षमन्नमयो मनो मोक्षमन्नमथो मनः ॥५॥ भद्रं कर्णेभिः स्वस्ति न०२ ॐ शान्तिः शान्तिः शान्तिः।।५।।
इत्यथर्ववेदेऽथर्वशिरउपनिषत्समाप्ता ॥ २ ॥ स्मिन्काले मद्वचनात्त्वं मूर्धानं मस्तकमथर्वणोऽस्य मद्विरोधिनः । स्रंसीरत्रंसीः । अधः पातयेत्यर्थः । इदमनिर्दिष्टमाह । योऽथर्वा प्रसिद्धोऽथर्वा नामास्य न केवलं मूर्धानं निपातय यत्किंचिद्धृदयं च । यत् , प्रसिद्धं हृदयकमलम् । चकारः स्रसी. रिति क्रियापदानुवृत्त्यर्थः । एवं तेन शापे दत्तेऽथर्वाऽपि तदीयं शापं ज्ञात्वा योगाम्यासेन बहिः स्थित्वा पुनः पतितं स्वशिरः संधायान्तः प्रवेशमकरोदित्याह । मस्तिकात् , दशमद्वारस्याधस्तात् । घृताकारो मांसपिण्डो मस्तिष्कं तस्मात् । ऊर्ध्वमुपरिमागे । प्रेरयत्स्वलिङ्गशरीरस्य प्रेरणमकरोत् । पवमानः प्राणोपासनेन प्राणात्माऽथर्वा वायुरूपः । अथ मस्तिष्कादूर्ध्वमागमनानन्तरम् । शीर्णो मस्तकस्थदशमद्वारा दूर्ध्व प्रेरयन्नित्यनुषज्यते । एवं कृतेऽथर्वणः शिरः पतितम् । तद्वा तच्छायापतितमेव । अथर्वणः शिरः । स्पष्टम् । देवकोशः, देवस्य सर्वदेवात्मकस्य प्राणस्य स्वयंप्रकाशस्य ब्रह्मणश्च कोश इवाऽऽवरणं सहृदयं मस्तकं देवकोशः । समुत्थितः सम्यपूर्ववत्स्थापितोऽथर्वणा पवमानेन बहिर्निर्गतेनेति शेषः । तथाचाथर्वणोऽथर्वशिर इति नाम तेन दृष्टत्वात्तन्नामैव श्रुतेरपीत्यर्थः । यतोऽथर्वा पवमानो मृतशरीरस्य जीवनहेतुरभूत्तत्ततः । प्राणोऽथर्वा पवमानः । अभिरक्षतु सर्वतो रक्षां करोतु मम । श्रियं वाक्कायमनोगतां बाह्यां च परशुसुवर्णादिरूपां लक्ष्मीम् । अन्नमदनीयं चतुर्विधम् । अथो अपि । मन अन्तःकरणदृष्टादृष्टानर्थेभ्यः । श्रियमन्नमयो मनः । व्याख्यातम् । विद्यां ब्रह्मविद्याफलां वेदाध्ययनादिरूपाम् । विद्यामन्नमयो मनः । व्याख्यातम् । मोक्षम्, अविद्यातत्कार्येभ्यो विमुक्तिम् । मोक्षमन्नमयो मनः । व्याख्यातम् । अभ्यासो वाक्यत्रयेऽप्युपनिषत्समाप्त्यर्थः । श्रीविद्यामोक्षाणां जनिफलत्वात्पृथग्वाक्यत्रयेणाभ्यासस्तेन प्रार्थना श्रीविद्यामोक्षाणामन्नमनसोः प्रार्थनम् ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिप्यश्रीशंकरानन्दभगवतः
कृतिरथर्ववेदान्तर्गताथर्वशिरउपनिषद्दीपिका समाप्ता ॥ ३ ॥
For Private And Personal