________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९४ नारायणविरचितदीपिकासमेता- [३ खण्डः ] मन्त्रपदार्थान्वदन्नुपास्योपासकैक्यकरणप्रकारमाह
जीववाचि नमोनाम चाऽऽत्मा रामेति गीयते ॥
तेदात्मिका या चतुर्थी तथा चाऽऽयेति कथ्यते ॥ १ ॥ जीववाचीति । नमोनाम नम इति नाम प्रातिपदिकं जीववाचि जीवमात्रं वक्ति तस्य नम्रत्वान्माभिधानम् । रामेति नाम्ना चाऽऽत्मा गीयते । तदात्मिका तेन रामेणाऽऽत्मनैक्यमापन्नैकपदतां गता या चतुर्थी विभक्तिरायेति तया च तथा कथ्यते रामात्मत्वं कथ्यतेऽर्थाज्जीवस्य । तथोच्यते जीवात्मनोरैक्यमेवोच्यत इति तेन यस्त. त्वमस्यादिवाक्यार्थः स एवास्य मन्त्रस्यार्थ इत्यर्थः ॥ १ ॥ वाक्यार्थमाह___ मत्रोऽयं वाचको रामो वाच्यः स्याद्योग एतयोः॥
फलंदश्चैव सर्वेषां साधकानां न संशयः ॥२॥ मनोऽयमिति । अयं मन्त्रो वाचको रामस्य रामोऽस्य मन्त्रस्य वाच्यः स्यात् । एतयोर्वाच्यवाचकयोोगो योजनमात्मना सहैक्यापादनमस्यायमर्थ इति निश्चय ऐक्यभा. वनं वा सर्वेषां साधकानां फलप्रदो निश्चितमेव । अर्थानुसंधानपूर्वक मन्त्रजप ऐक्यभावेन च फलविशेष इत्यर्थः ॥ २ ॥ इममेवार्थ दृष्टान्तेन स्पष्टयति
यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् ॥
तथा बीजात्मको मत्रो मत्रिणोऽभिमुखो भवेत् ॥ ३ ॥ यथेति । यथा यो नामी नामवान्स वाचकेन नाम्नाऽऽकारितः सन्नभिमुखो भवेदाकारयितुरिति शेषः । यद्वाऽऽययत्याकारयतीत्याय् । अय गतो, आयूर्वः क्विप् । तस्याऽऽय आकारयितुरित्यर्थः । तथा बीजात्मको मन्त्रो नामवज्ज्ञातव्यः । येनाऽऽकारितो देवो मन्त्रिणोऽभिमुखः संमुखो भवेदित्यध्याहारेण योज्यम् । यद्वा तथा तद्वबीजात्मको मन्त्रो रोमेति मन्त्रः । यद्वा बीजं जगत्कारणं रामस्तदात्मकस्तेन सहैक्यमापन्नो मन्त्र एकाक्षरादिः साध्यसाधकमन्त्रैक्यज्ञाने सति पूर्वोक्तपदार्थवाक्यार्थज्ञाने वा सति मन्त्रिणो जप्तुरभिमुखः शीघ्रफलदो भवेदिति पदार्थवाक्यार्थज्ञान ऐक्यज्ञाने च फलमुक्तम् । उक्तं घ-"देवतागुरुमन्त्राणां भावयेदैक्यमात्मना" इति ॥ ३ ॥ न्यासमाह
बीजशक्ती न्यसेदक्षवामयोः स्तनयोरपि ।। कीलो मध्येऽविनाभाव्यः स्ववाञ्छाविनियोगवान् ॥ ४ ॥
१ क. ख. ग. तादात्मिका । २ क. गीयते । ३ च. 'लप्रदश्च स । ४ ग. घ. रामिति ।
For Private And Personal