SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ २ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् ।। थासंख्यमिदं वर्तते । यस्य चिच्छक्त्या जीवत्वेन गुणैः सृष्ट्यादिकारणत्वेन चेदं सर्व विषयिविषयरूपं भातीत्यर्थः । कथं भूतमिदम् । ॐ परमात्मस्वरूपमेव वस्तुगत्या । यथैवोंकारस्तथैव च रामबीनमिति वटबीनदृष्टान्तेनाऽऽह-यथेति । प्राकृतः प्रकृतेर्वटबीजादुत्पन्नः । रामबीजं रामिति तत्र स्थितम् । अर्थपक्षे राम एव वीज कारणं तत्र स्थितम् । अस्य विधानं प्रागुक्तम् । रेफारूढा इति । रेफोपरिस्थाः । आ ब्रह्मा । अः कृष्णः । मो महेश्वरस्तिस्रो मूर्तयः । यथा प्रणवस्याऽऽकारोकारमकारार्था ब्रह्मविष्णुरुद्रास्तद्वत् । तिस्रः शक्तय उत्पत्तिस्थितिसंहारशक्तयः । यद्वा बिन्दुनादबीजना रौद्री ज्येष्ठा वामा च रुद्रब्रह्मविष्णुनिष्ठा ज्ञानेच्छाक्रियाशक्तयो वा । तदुक्तम्-"रौद्री बिन्दोस्ततो नादान्ज्येष्ठा बीजादजायत । वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः ॥ ते ज्ञानेच्छाक्रियात्मानो वह्वीन्द्वकस्वरूपिणः" इति ॥१॥२॥३॥ सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त । स्थितानि च प्रहृतान्येव तेषु ततो रामो मानवो माययोऽध्यात् ।। जगत्माणायाऽऽत्मनेऽस्मै नमः स्यान्नमस्त्वैक्यं प्रवदेत्माग्गुणेनेति ॥४॥(१७) इति श्रीरामपूर्वतापनीयोपनिषदि द्वितीयः खण्डः ॥२॥ सीतारामौ तन्मयौ प्रकृतिपुरुषमयौ । अत्र बीजे “पूज्यौ बीजस्य मूर्तित्वान्मृति मूलेन कल्पयेत्" इत्युक्तेः । आभ्यां सीतारामाभ्यां द्विसप्त द्विरावृत्तानि सप्त चतुर्दशेत्यर्थः । जातान्युत्पन्नानि स्थितानि च तयोरेव स्थितिं प्राप्तानि । प्रहतानि लीनानि तेष्वकाराकारमकारेषु ब्रह्मविष्णुमहेश्वरेषु । ततः कारणाद्रामो मायया मानवोऽध्यात् । मायया कपटेन मानवोऽहमिति दध्यौ । श्री शीतायै स्वाहेतिमन्त्रेण सीता पूज्या । अयं स्वतन्त्रोऽपि । अस्य जनकगायत्रेशीता ऋष्याद्याः । श्री बीजं स्वाहा शक्तिः दीर्घस्वरबीजायेन षडङ्गम् । वैष्णवे पीठे पूजा । राघवयुतां स्वर्णाभां पद्महस्तां रामालोकनतत्परां ध्यायेत् । पुरश्चरणे वर्णलक्षं जपः । कमलैः पायसेन वा दशांशहोमः । एवमिष्टार्थसिद्धिः । जगत्प्राणाय जगतां प्राणात्मनेऽस्मै रामाय नमो नमस्कारः स्यात्कतव्य इत्यर्थः । नमस्तु कृत्वेति शेषः । नमस्कारं तु कृत्वा प्राग्गुणेन गुणेभ्यः प्राग्रूपेण ब्रह्मणा नमस्यदेवतया सहक्यमात्मनो रामोऽहमिति प्रवदेत् । नमस्यैक्यमिति पाठे स्पष्टोऽर्थः । इतिशब्दः खण्डसमाप्तौ ॥ ४ ॥ इति श्रीरामपूर्वतापनीयोपनिषद्दीपिकायां द्वितीयः खण्डः ॥ २ ॥ १ क. ख. ग. घ. °याऽधात् । २ घ. ङ. न्मूर्तिमू । ३ च. कारोका । ४ घ. सीताया। ५ घ. त्रसीता। ६ घ. 'रनुजा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy