________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९२
नारायणविरचितदीपिकासमेता- [२ खण्डः ] करणं त्राणनम् । मननेन त्रायते मन्त्र इति विग्रहः । आद्यः संपदादिक्विबन्तः । अन्त्यः 'सुपि स्थः' इति कान्तः । सर्वस्य वाच्यस्य वक्तव्यस्य वाचकः प्रणववद्ब्रह्माभिधायकत्वाद्ब्रह्मणि च सर्वान्तर्भावात् ॥ १२ ॥
सोभयस्यास्य देवस्य विग्रहो यत्रकल्पना ॥ विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३ ॥
इति रामपूर्वतापन्युपनिषदि प्रथमः खण्डः॥१॥ सेति । सा पञ्चधा कल्पना । अस्य रामस्य यन्त्रकल्पना यन्त्रस्वरूपम् । उभयस्य पुंस्प्रकृत्यात्मकस्य मूर्तामूर्तात्मकस्य मूलस्थूलव्यूहात्मकस्य वा । उभाभ्यां ज्ञान क्रियाशक्तिभ्यां सहितस्य वो । देवस्य विग्रहः शरीरं यन्त्रस्थदेवानां सेनारूपत्वात्। ' तस्य सेनादिकल्पना । इति श्रुतेश्च । सर्वदेवमयमेकमेव देवस्य विग्रहः शरीर यन्त्रमित्यर्थः । अथवा स मन्त्रोऽभयस्य निर्भयस्यास्य देवस्य रामस्य विग्रहः शरीरं 'मूर्ति मूलेन कल्पयेत् ' इति स्मृतेः । ततो यन्त्रकल्पना कर्तव्या । अयं यन्त्रविधिरकरणे बाधकं विनेति ॥ १३ ॥
इति श्रीरामपूर्वतापनीयोपनिषद्दीपिकायां प्रथमः खण्डः ॥ १ ॥
देवस्वरूपमाह
स्वभूतिर्मयोऽनन्तरूपी स्वेनैव भासते ॥ जीवत्वेनेदमों यस्य सृष्टिस्थितिलयस्य च ॥ १॥ कारणत्वेन चिच्छक्त्या रजासत्त्वतमोगुणैः ॥ यथैव वटवीजस्थः प्राकृतश्च महाँद्रुमः ॥ २ ॥ तथैव रामबीजस्थं जगदेतचराचरम् ।।
रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥३॥ स्वभूरिति । स्वयमन्यनिरपेक्षो भवति विद्यते स्वभूः । ज्योतिर्मयः प्रकाशात्मा। अनन्तो देशतः कालतश्च पारसमाप्तिरहितः । अनन्त इत्येव वक्तव्ये रूपीतिपदं रूपवत्त्वेऽप्यनन्तताव्याहतिसूचनार्थम् । स्वेनैव भासते न त्वन्येन स्वप्रकाशकत्वात् । अथच स्वभूबिन्दुर्योतिर्मयो रेफमिलितोऽनन्तरूप्याकारेण निरूपितो मध्य आलिङ्गितो रोमिति मन्त्रः खेनैव स्वात्मनैव भासते शब्दस्य हि स्वरूपमर्थो बाह्य श्वेति । यद्वा स्फोटस्य ब्रह्मस्वरूपत्वात्तस्य च स्वप्रकाशत्वात् । जीवत्वेनेति । यस्य जीवत्वेन स्थित्युत्पत्तिलयस्य च कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैर्य
१ क. प्रथमोपनिषत् । २ घ. ङ. वा। तत्र यन्त्रमस्य दे। ३ ङ. मूर्तिम। ४ क. 'हान्द्रुमः । ५ च. रामेति।
For Private And Personal