________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ १ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् ।
४९१ भेदानामम्बिकाया अष्ट हस्ताः पुरुषोत्तमस्य दश शंकरस्य द्वादश षोडशाष्टादश चण्डिकामूर्तिभेदानाम् । शङ्खादिभिरायुधैः । सहस्रं हस्ता विश्वरूपस्य । वर्णाः श्यामश्वेतादयो वाहनानि पक्षीन्द्रवृपेन्द्रादीनि तेषां कल्पना न तु वस्तुवृत्तिः ॥ ८ ॥ ९ ॥
शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ।।।
कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १० ॥ • शक्तेरपि कल्पना स्वरूपातिरिक्तायाः पृथक्शक्तेरभावात्तस्याः पार्थक्यं करप्यते । अथवा प्रभुमन्त्रोत्साहलक्षणास्तिस्रः शक्तयस्तासां कल्पना । सेना सैन्यं तस्य कल्पना । एवं ब्रह्मणि पञ्चधा कल्पना रूपकल्पना पुंस्न्यङ्गास्त्रादिकल्पना वर्णवाहनकल्पना शक्तिकल्पना सेनाकल्पना चेति । यद्वा ब्रह्मणि रामचन्द्र एव युद्धावसरे राक्षसविमोहनाय नानारूपादिपञ्चककल्पना । अथवा ब्रह्मण्येवं हि पञ्चधेति परेणान्वेति । ब्रह्मणि पञ्चायतनभेदेन कल्पितस्य देहस्य सतस्तस्य सेनादिकल्पना ॥ १० ॥
ब्रह्मादीनां वाचकोऽयं मत्रोऽन्वादिसंज्ञकः ॥
जप्तव्यो मत्रिणा नैवं विना देवः प्रसीदति ॥ ११ ॥ ब्रह्मादीनां स्थावरान्तानां वाचकोऽयं मन्त्रो राममन्त्रः । वक्ष्यति हि-"तथैव रामबीजस्थं जगदेतञ्चराचरम्" इति । यद्वा--"इति रामपदेनासौ परं ब्रह्म" इत्यादीनां पूर्वोक्तानामर्थानां वाचको रामनामात्मको मन्त्रः । आदिशब्दः प्रकारार्थः पूर्वोक्तसंनिवेशापेक्षः । यद्वा-ब्रह्माद्वैतपरमानन्दात्मा तदादीनां वक्ष्यमाणसप्तचत्वारिंशहानाम् 'रमन्ते योगिनो यत्र' इत्याधुक्तस्य मूलव्यूहस्य च वाचकः । अन्वर्थ सर्वथानुगतं ब्रह्म तदादि प्रपञ्चजातं तस्य संज्ञा ज्ञानं यस्मात्सोऽन्वादिसंज्ञः । स्वार्थे कः । सर्ववाचक इत्यर्थः । यद्वा द्वंद्वगर्भो बहुव्रीहिः । अन्वर्थसंज्ञक आदिसंज्ञकश्च । अन्वर्थता 'मननात्राणनान्मन्त्रः' इति । 'राक्षसा मरणं यान्ति' इत्यादिपूर्वोक्तैश्चार्थैरनुगतार्थः । आदिसंज्ञक आदिमन्त्रत्वाज्जगदादित्वाच्च । स च मन्त्रिणा गुरुतो लब्धमन्त्रेण जप्तव्यः । विपक्षे बाधकं नैवमिति । एवं विनाऽर्थस्मरणपूर्वकमन्त्रनपं विना देवः परमेश्वरो न प्रसीदति ॥ ११ ॥
क्रिया कर्मेति कर्तृणामर्थ मन्त्रो वदत्यथ ॥
मननात्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२ ॥ क्रियेति । क्रिया ह्लादनादिरूपा कर्म रक्षोमरणादि । इत्येवमात्मकर्मकर्तृणा गुणानां मायिकत्वेन परमार्थकर्तृत्वरहितानां सतां देवानामर्थ मन्त्रो वदति । मन्त्रत्वं कस्मादत आह–अथेति । अथेत्युपक्रमे । मननाद्बोधनात्राणनान्मन्त्रः । त्राणस्य
१ च. 'या ध्यानादि । २ च. क्षोमार' । ३ घ. ड. °कमक ।
For Private And Personal