________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९०
नारायणविरचितदीपिकासमेता- [१ खण्डः ] तारमायारमानङ्गवाक्स्वबीजैस्तु षडिधः । यक्षरस्यक्षरश्चन्द्रभद्रान्तश्चतुरक्षरः ॥
द्विधा मुन्यादिकं त्वेषां पूर्ववत्सपुरश्चरम् । अनन्ते देशकालकृतपरिच्छेदशून्ये नित्ये नियतेऽवयवविकारशून्ये चाऽऽनन्दे च सुखैकरूपे चिदात्मनि चिद्धने मूर्तब्रह्मणि योगिनो निरुद्धेन्द्रियग्रामा रमन्ते ध्यानेन तृप्यन्तीति हेतो रामपदेनासावेव दशरथात्मजो मुख्यं ब्रह्माभिधीयते । ननु मूर्तस्य कथमानन्त्यादि नन्वमूर्तस्यापि कथमानन्त्यादि वचनादिति चेत्समः समाधिरपरिदृष्टार्थखीकारस्तूभयत्रापि समः । तस्मात् "द्वे वाव ब्रह्मणो रूपे मूर्त चामूर्त च" इतिश्रुते. रसंकोच एव न्याय्यस्तेन वचनानि त्वपूर्वत्वादितिन्यायात् । अलौकिकार्थबोधनं श्रुतेरलंकार एव ॥ ६ ॥ रामशब्दार्थ निरूप्य ब्रह्मणः कथं शरीरित्वमित्याशङ्कयोसरमाह
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ॥
उपासकानां कार्यार्थ ब्रह्मणो रूपकल्पना ॥७॥ - चिन्मयस्येति । जाड्यद्वैताविद्यातत्काभावः क्रमेण विशेषणचतुष्टयस्यार्थः । चिन्मयस्य ब्रह्मणो रूपकल्पना मायिक रूपमित्यर्थः । स्वरूपानतिरिक्तया मायाशक्त्या नटस्येवैकस्यापि विरुद्ध नानाधर्माविरोध इति भावः । माया ह्यादिपुरुषस्य मनस्तेन संकल्पितं मायिकम् ॥ ७ ॥ तदायुधादिकमपि कल्पितमेवेत्याह
रूपस्थानां देवतानां पुंस्व्यङ्गास्त्रादिकल्पना ॥ द्वि चत्वारि षडष्टाऽऽसा दश द्वादश षोडश ॥ ८ ॥ अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः ॥
सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥९॥ रूपस्थानामिति । रूपे तिष्ठन्ति रूपस्थास्तासां देवतानाम् । पुंस्त्वकल्पना यथा रामः पुमान् । स्त्रीत्वकल्पना यथा सीता स्त्री "त्वं कुमार उत वा कुमारी" इति मन्त्रवर्णः । अङ्गकल्पना यथा त्रिनयनचतुर्भुजत्वादि रुद्रविष्ण्वादीनाम् । अस्त्रकल्पना यथा शाङ्ग धनुर्नन्दकः खः । यद्वा षडङ्गान्यारभ्य वज्राघस्नपर्यन्तानामावरणानां कल्पना । आदिशब्दाढूषणादिकल्पना । उक्तमर्थमुदाहरति-द्वि चत्वारीति । आसां देवतानां द्वि द्वौ हस्तौ कथिताविति विपरिणामोऽविभक्तिकश्च निर्देशः । तथा चत्वारि चत्वारो हस्ताः कथिता यथा हरेः । लिङ्गव्यत्ययः । तथाऽऽसां षड्भुजाः कथिताः। यथा मूर्ति
११. . र अक्ष । २ क. पुंस्त्रीलिङ्गादि । ३ घ. ड. ङ्गादार । ४ घ. ड. "ति प ।
For Private And Personal