SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४८८ नारायणविरचितदीपिकासमेता- [१ खण्डः ] तद्यथा-"सायं प्रातश्च मध्याह्ने रामसंध्यां समाचरेत् । आदायाञ्जलिना सम्यग्जपेन्मालामनु सकृत् ॥ जलं दक्षिणहस्तस्थं सव्यहस्ते विनिक्षिपेत् । तन्निसृताम्बुना मूर्ध्नि सिञ्चेन्मालामनु स्मरन् । दशाक्षरेण तच्छेषमभिमन्त्र्य जलं पिबेत् । पुनरञ्जलिनाऽऽदाय जलमूर्ध्वं त्रिरुत्क्षिपेत् ॥ मण्डलस्थाय रामाय नमोर्ध्वं कल्पयाम्यहम् । ततो रामोऽहमस्मीति गायत्री नियतो जपेत् ॥ जन्मप्रभृति यत्पापं दशभिर्याति संचितम् । पुरश्चरणमस्याश्च चतुर्लक्षजपावधि ॥ ओमादिमुक्तिदा स्मृता ह्रीमादिर्वाक्पदा प्रोक्ता । श्रीमादिः श्रीपदा ज्ञेया क्लीमादिर्हि वशंकरी। अनयाऽऽराधितो रामः सर्वाभीष्टं प्रयच्छति" ॥ ततोऽष्टाविंशतिस्तर्पणम् । इति रामसंध्या । अपत्यापत्यवत्संबन्धविवक्षायां तु दाशरथिरिति स्यात् । जातसंबन्धे तु दाशरथ इति । तथा च प्रयोगः'प्रदीयतां दाशरथाय मैथिली' इति । दशरथे जात इति विग्रहे हि तत्र जात इत्यौत्सर्गिकः स्यात् । किंच बहिरङ्गसंबन्धोक्त्या ब्रह्मणो वास्तवसंबन्धाभावोऽपि सूचितस्तेन यथा नृसिंहस्य स्तम्भाजन्म मत्स्यस्य मनोरञ्जलितो वराहस्य ब्रह्मणो नासिकातस्तथा रामस्यापि दशरथे लीलया जन्म न तु कर्मवासनादिप्रयुक्तमपत्यापत्यवत्संबन्धनिबन्धनमिति । दशाक्षरमन्त्रमालामन्त्रौ वक्ष्येते । रामाख्यानिर्वचनमखिलं रातीत्यादि ॥ १ ॥ स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ।। राक्षसा येन मरणं यान्ति खोद्रेकतोऽथवा ॥२॥ . रामनाम भुवि ख्यातमभिरामेण वा पुनः ॥ राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३ ॥ प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् ॥ धर्ममार्ग चरित्रेण ज्ञानमार्ग च नामतः ॥ ४ ॥ यथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् ॥ तथा राँत्यस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥५॥ १६. वाराहस्य । २ क, यस्य । ३ क. घ. रामस्य । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy