SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः । श्रीरामपूर्वतापनीयोपनिषत् । नारायणविरचितदीपिकासमेता । श्रीराम तापनीयेऽस्मिन्पञ्चत्रिंशत्तमे ततौ (९) । आथर्वणे तथा खण्डा दश पूर्वाभिधे मताः ॥ १ ॥ "यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिदाम्बुजदासीद्ब्रह्मा विश्वसृजां पतिः ॥ यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् । एतन्नानावताराणां निधानं बीजमव्ययम् " ॥ इतिस्मृतेर्नारायणकेथनानन्तरं तदवतारकथनावसरे प्राप्ते मुख्यत्वाद्रामावतार - मादौ निरूपयति । महानारायणस्यैव कार्यार्थमवतीर्णस्य रामाभिधस्य चरितवर्णनार्थमारभ्यते ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ । रघोः कुलेऽखिलं राति राजते यो मेहीस्थितः ॥ १ ॥ ॐ चिन्मयेऽस्मिन्निति । आदावोंकारोऽर्थाप्रच्युतये । श्रीरामस्वरूपं तु नारसिंहे निर्णीतं पूर्णावतार इति । दशरथेऽधिकरणे रघोर्दिलीपात्मजस्य सूर्यवंशस्य कुले चिन्मये ज्ञानस्वरूपे महाविष्णौ क्षराक्षरातीते पुरुषोत्तमे । तदुक्तं योगतत्वे - " विष्णुर्नाम महायोगी महाकायो महातपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः " इति । नानावतारमूलकारणे हरौ जाते सत्यस्य हरे रामाख्या रामाभिधा स्यात्प्रवृतेति पञ्चमेनान्वयः । तस्यापत्यमित्यन्तरङ्गसंबन्धं हित्वा तत्र जात इति बहिरङ्गसंबन्धविवक्षा दाशरथशब्दसूचनार्था । तदपि - " दाशरथाय विद्महे सीतावलभाय धीमहि । तन्नो रामः प्रचोदयात्" इति गायत्रीसूचनार्थम् । प्रथमं गायत्रीसूचनं प्रथमतः संध्योपासन सूचनार्थम् । १ च. 'कथानं' । २ ख. महीस्थितिः । ३ ङ च्युत्तये । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy