SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भेदन उपायमाह www.kobatirth.org योगशिखोपनिषत् । द्वितीयं सुषुम्नाद्वारं परिशुद्धं विसर्पति ।। कपालसंपुढं भित्त्वा ततः पश्यन्ति तत्परम् || ३ || इति द्वितीयः खण्डः ॥ २॥ द्वितीयमिति । सुषुम्नायाद्वितीयं पश्चिमं परिशुद्धं निर्गुणं विसर्पति प्रविशति मनः । प्रवेशोपायोऽमृत चिन्दायुक्तः । द्वितीयमितिवचनात्सुषुम्नाया द्वौ मार्गाविति लक्ष्यते पूर्वमार्गः पश्चिममार्गश्च । तत्र पूर्वमार्गः प्रवृत्तिविषयः पश्चिमो निवृत्तिविषयोऽत एव परिशुद्धः । उक्तं च स्वात्मारामेण - 'पूरयेन्मारुतं दिव्यं सुषुम्नापश्चिमे मुखे' इति । पश्चिम मुखस्य योगिमार्गत्वात्पूर्वमुखं कर्ममार्गः । कपालसंपुटं भित्त्वा विदार्याध्यात्मं शिरोऽस्थ्यधिदैवतं ब्रह्माण्डोदरशकलम् । ततस्तदनन्तरं परं पश्यन्ति साक्षात्कुर्वन्ति । तदुक्तं खेचर्याम्— - "मनसा सह वागीश्या भित्त्वा ब्रह्मार्गलं क्षणात् । परामृतमहाम्भोधौ विश्रान्तिं तत्र कारयेत्" इति ॥ २ ॥ इति द्वितीयः खण्डः ॥ २ ॥ उक्तयोगासमर्थं प्रति सुगमोपायमाह - Acharya Shri Kailashsagarsuri Gyanmandir अथ न ध्याययेज्जन्तुरालस्याच्च प्रमादतः । यदि त्रिकालमावर्तेत्स गच्छेत्परमं पदम् || १ || अथेति । अथशब्दः पक्षान्तरे । न ध्याययेद्ध्यानं ध्यायो ध्यायं कुर्याद्ध्याययेत् । जन्तुर्देही । आलस्यादलसत्वात्प्रमादतो वा यदि ध्यानं न कुर्यात्तर्हि यद्येतन्यरूपं त्रिकालं त्रिसंध्यमावर्तेदावर्तयेत्पठेत्स परमं पदं गच्छेत् ॥ १ ॥ पुण्यमेतत्समासार्थ संक्षेपात्कथितं मया । लब्धयोगेन बोद्धव्यं प्रसन्नं परमेष्ठिनम् || २ || १ क. 'य समासात्क' । ४८५ कथितं मयेति । आचार्यो जातसाक्षात्कारः शिष्यान्प्रति वदति । एतत्पुण्यं पवित्रं योगतत्त्वं मया संक्षेपादविस्तरेण कथितं भवद्भिर्बोद्धव्यम् । कथंभूतेन मया प्रसन्नं परमेष्ठिनं ब्रह्माणं समासाद्य प्राप्य लब्धयोगेन ब्रह्मणः सकाशान्मया योगो लब्ध इत्यृषेर्वाक्यम् ॥ २ ॥ अस्य योगस्य दुष्प्रापतां श्रद्धाजननायाऽऽह— For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy