SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org योगतत्रोपनिषत् । हृदिस्थाने स्थितं पद्मं तच्च पद्ममधोमुखम् । ऊर्ध्वनालमधोबिन्दु तस्य मध्ये स्थितं मनः ॥ ९ ॥ उद्घाटनोपायमाह - Acharya Shri Kailashsagarsuri Gyanmandir इति प्रथमः खण्डः || १॥ 1 हृदीति । पद्मं स्थितं च वर्तते तच्च पद्ममधोमुखं वर्तते । अधोबिन्दु । अधोमुखा बिन्दवो यस्य । तदुक्तम् - संतते शीकराभिश्चेति । तस्य मध्ये मनः स्थितं पक्षिवकुलाये ॥ ९ ॥ इति प्रथमः खण्डः १ ॥ अकारे शोचितं पद्ममुकारेणैव भिद्यते । मकारे लभते नादमर्धमात्रा तु निश्चला ॥ १ ॥ ४७२ अकार इति । अकार उच्चारिते सति शोचितं तद्रवीभूतं चलनोचितं जातमुकारेणोच्चारितेनैव भिद्यते विकसति । मकार उच्चारिते सति नादं खमव्यक्तशब्दं लभते तग्रहणोचितं भवति । छान्दसत्वाद्विभक्तिप्रक्रमभङ्गो न दोषः । अर्धमात्रा तु निश्चला - मात्रायामुच्चारितायां निश्चली भवतीत्यर्थः ॥ १ ॥ ध्येयस्वरूपमाह शुद्धस्फटिकसंकाशं किंचित्सूर्यमरीचिवत् । लभते योगयुक्तात्मा पुरुषोत्तमतत्परः || २ || For Private And Personal शुद्धेति । योगयुक्तात्मा योगेनाष्टाङ्गेन युक्तो नियन्त्रित आत्मा मनो यस्य । पुरुपोत्तमो वासुदेवस्तत्र तत्परस्तत्परायणः । किंचित्सूर्य मरीचिवदुज्ज्वलं निर्मलं ध्येयं स्वरूपं लभत इत्यन्वयः । सगुणध्यानान्निर्गुणरूपं भातीति भावः ॥ २ ॥ इदानीं प्रत्याहारधारणे आह कूर्मवत्पाणिपादाभ्यां शिरस्यात्मनि धारयेत् । एवं सर्वेषु द्वारेषु वायुं पूरत पूरत ॥ ३ ॥ निषिद्धे तु नवद्वार उच्छ्रसन्निःश्वसंस्तथा । घटमध्ये यथा दीपं निर्वाणं कुम्भकं विदुः ॥ ४ ॥ कर्मवदिति । पाणिपादव्यापाराभ्यां सह सर्वेन्द्रियवृत्तीः शिरसि सहस्रदले स्थित आत्मनि मनसि धारयेत् । एवं सेन्द्रिये मनसि शिरसि नीते सति सर्वेषु द्वारेषु नवसु वायुं पूरयतो योगिनो यूयं पूरयतेति प्रेरणा । ततो वायुपूर्णे देहे सति नवद्वाररोधः १ क. ख. ग. ङ. 'बिन्दु' ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy