________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४७८
नारायणविरचितदीपिकासमेतासांसारिकधर्मव्यवहारोऽपि सिकतासेतुप्राय इत्याह
या माता सा पुनर्भार्या या भार्या जननी हि सा ॥
यः पिता स पुनः पुत्रो यः पुत्रः स पुनः पिता ॥ ४ ॥ येति । जन्मान्तरेणेति भावः ॥ ४ ॥
एवं संसारचक्रेण कूपचक्रघटा इव ॥
भ्रमन्तो यानि जन्मानि श्रुत्वा लोकान्समभुते ॥५॥ एवमिति । एवमुक्तेन प्रकारेण । संसारस्य जन्मनश्चक्रेणाऽऽवृत्तिलक्षणेन । कूपचक्रं यन्त्रमारघट्टाख्यं तस्य घटा घटय इव । ते यथोपरिस्था अधो यान्त्यधस्थाश्चोपरि तद्वद्रमन्तो जीवा यानि जन्मानि पूर्वोक्तानि तानि यान्तीति शेषः । तथा हि । जन्ममरणप्रबन्धध्यानं भवति । तद्य इत्थं विदुरित्यादिना लोकप्राप्तेरुक्तत्वात् ॥५॥ इदानीमेतत्संसारतरणोपायं प्रणवाक्षरोपासनमाह
त्रयो लोकास्त्रयो वेदास्त्रयः संध्यास्त्रयः सुराः ॥
त्रयोऽग्नयो गुणास्त्रीणि स्थिताः सर्वे त्रयाक्षरे ॥ ६ ॥ त्रय इति । अकारादीनां क्रमेण पृथिव्यन्तरिक्ष द्यौश्चेति त्रयो लोकाः। वेदा ऋग्यजुःसामानि । त्रयः संध्यास्तिस्रः संध्या इत्यर्थः । यद्वाऽत्र संधिभवाः कालाः। त्रयः सुरा ब्रह्मविष्णुरुद्रा ब्रह्मरुद्रविष्णवश्च । त्रयोऽग्नयो गार्हपत्यदक्षिणाग्न्याहवनीयाः । त्रीणि गुणास्त्रय इत्यर्थः । सत्वरजस्तमांसि । त्रयाक्षरे त्रयात्मकमक्षरमकारादि यत्र प्रणवे ॥६॥
त्रयाणामक्षरे चान्ते योऽधीतेऽप्यर्धमक्षरम् ॥
तेन सर्वमिदं प्राप्तं लब्धं तत्परमं पदम् ॥ ७ ॥ त्रयाणामिति । त्रयाणामक्षराणां मध्येऽन्तेऽक्षरे मकारेऽधीते सति योऽधमक्षरमधीतेऽपि । अपिरल्पभावे । तेनाधिकारिणा सर्वमिदं प्राप्तं प्राप्तव्यमिह लोके । यच्च परमं पदं मोक्षाख्यं तदपि लब्धं प्राप्तम् ॥ ७ ॥
ननु परमपदं व वर्तते सर्वत्रास्ति चेत्कथं नोपलभ्यते सदाकारेणोपलभ्यत एवानुस्यूतम् । को दृष्टान्तः । उच्यते
पुष्पमध्ये यथा गन्धः पयोमध्येऽस्ति सर्पिवत् ।
तिलमध्ये यथा तैलं पाषाणेष्विव काश्चनम् ॥ ८॥ पुष्पेति । सर्पिवत् । छान्दसो वर्णलोपः । यथैते दृष्टान्तास्तथा तदनुस्यूतमस्तीत्यर्थः ॥ ८॥
इदानी हृत्पद्मं ध्यानस्थानमादर्शयति
For Private And Personal