SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॐ तत्सद्ब्रह्मणे नमः । योगतत्त्वोपनिषत् । नारायणविरचितदीपिकासमेता । योगतत्त्वं त्रयोविंशं द्विखण्डं ग्रन्थविस्तरे || योगसिद्धिफलं चात्र योगतत्त्वं निरूप्यते ॥ १ ॥ ॐ योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया ॥ तच्छ्रुत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ॥ १ ॥ ग्रन्थस्य तावत्फलमाह-योगेति । मङ्गलार्थ योगसिद्धये च परमदेवतां स्तौति Acharya Shri Kailashsagarsuri Gyanmandir विष्णुर्नाम महायोगी महाकायो महातपाः ॥ तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥ २ ॥ 66 विष्णुरिति । तत्त्वमार्गे परमार्थदृष्टिमार्गे । यथा दीपः प्रकाशकस्तथा विष्णुर्दृश्यत इत्यन्वयः । महायोगी " कृष्णो योगेश्वरः " इति स्मृतिः । महाकायो यद्देहे ब्रह्माण्डको यो वसन्ति । महातपा महाज्ञानः यस्य ज्ञानमयं तपः " इति श्रुतेः । पुरुषोत्तमः पुरुषेषु क्षराक्षर तदतीतेषु मध्य उत्तमश्वरमः पुरुषोत्तमः । तदुक्तम् - " यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः " इति ॥ २ ॥ योगप्रवृत्त्यनं वैराग्यं तावदाह यः स्तन्यं पूर्व पीत्वाऽपि निष्पीड्य च पयोधरान् ॥ यस्मिञ्जातो भगे पूर्णे तस्मिन्नेव भगे रमेत् || ३ || यः स्तन्यमिति । योऽविवेकी । स्तनेषु भवं स्तन्यं दुग्धम् । शरीरावयवाद्यत् । पूर्व बालदशायां पीत्वाऽपि पयोधरान्निष्पीड्य रमेत् । बाला हि वयन्तो मातुः पयोधरौ मर्दयन्ति पश्चाद्यश्च यस्मिन्नेवाऽऽत्मना पूर्णे भगे बाल्ये जातस्तस्मिन्नेव तज्जातीय एव भगे रमेद्यैौवने । अत्रापि निप्पीड्य च पयोधरानिति संबध्यते । स कथं परं पश्येदिति शेषः । योषिदासक्तचित्तानां मातृगामिनां ज्ञानलेशोऽपि दुर्लभ इति भावः ॥ ३ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy