SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथर्वशिरउपनिषत् । त्मस्थं येऽनु पश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् । यो योनि योनिमधितिष्ठत्येको येनेदं पञ्चविधं च सर्व तमीशानं पुरुषं देवमीड्यं निध्यायात्तारं शान्तिमत्यन्तमेति । प्राणेष्वन्तमनसो लिङ्गमाहुर्यस्मिन्क्रोधो या च तृष्णा क्षमा च तृष्णां छित्त्वा हेतुजालस्य मूलं बुद्ध्या संचिन्त्य स्थापयित्वा तु रुद्रे । आत्मस्थमन्तःकरणे वर्तमानम् । येऽधिकारिणः । अनुपश्यन्ति शास्त्रगुरूपदेशेन साक्षात्कुर्वन्ति । धीरा ब्रह्मचर्यादिसाधनसंपत्त्या धैर्ययुक्ताः । तेषामात्मस्थात्मावलोकिनाम् । शान्तिरकार्यविद्योपरतिः । शाश्वती पुनरुत्थानशुन्या । आत्मज्ञानमन्तरेणास्याः प्राप्तौ नोपायान्तरमित्याह । नेतरेषाम् । आत्मज्ञानशून्यानाम् । ननु कोऽसौ वालाग्रमात्रो ध्येय इत्यत आह । यः प्रसिद्धः । योनि योनिं शरीरं शरीरम् । निःशेषाणि स्थावरजङ्गमशरीराणत्यिर्थः । अधितिष्ठति, अधिष्ठानं करोति । न चानन्तशरीराधिष्ठानेऽप्यस्य भेद इत्यत आह । एको भेदरहितः । येन, अधिष्ठानभूतेन । इदं विविधशब्दप्रत्ययगम्यम् । पञ्चविधं च भूतज्ञानेन्द्रियकर्मेन्द्रियादिरूपेण पञ्चप्रकारम् । चकारादेकप्रकारमायारूपमपि । सर्व निखिलम् । वर्तत इति शेषः । तं सर्वाधिष्ठातारम् । ईशानं नियन्तारम् । पुरुष वरद परिपूर्णम् । देवं स्वयंप्रकाशम् । ईड्यं स्तुत्यम् । निध्यायात्सर्वोऽपि जनो नितरां ध्यानं करोतु । तारं स्मरणमात्रात्सर्वेषां संसारार्णवतारकम् । शान्तिम् । उक्ताम् । अत्यन्तमेति, अतिशयं पुनरावृत्तिशून्यं गच्छति । ननु यद्ययमात्मैतादृशः कस्मात्सर्वैर्न ज्ञायत इत्याशङ्कय तृष्णापाशच्छेदाभावादित्यभिप्रायेण तृष्णापाशच्छेदकं योग दर्शयितुं पीठिका रचयति । प्राणेषु प्राणशब्देष्विन्द्रियादिषु । अन्तर्मध्ये । मनसोऽन्तःकरणस्य । लिङ्ग लिङ्गशरीरम् । अयमर्थः । प्राणानामन्तःकरणेनाविनाभूतत्वादन्तःकरणस्य च सर्ववासनाचित्रपरत्वाद्वासनारूपत्वाच्च लिङ्गशरीरस्याप्राणान्तःकरणात्मनोऽपि प्राणाविनाभूतान्तःकरणेऽवस्थानमविरुद्धम् । आहुः कथयन्ति लिङ्गविदः । यस्मिन्वासनारूपे लिङ्गशब्दाभिधेयेऽन्तःकरणे । क्रोधः, विषयप्राप्तिविघातकहेतौ कर्मणा मनसा वाचाऽनिष्टकारित्वप्रयोजकहेतुः । या च प्रसिद्धा । तृष्णा,अपीदं मे स्यादित्यभिलाषरूपा । चकारो लोभादीनां संग्रहार्थः । क्षमा च जन्तुष्वपकारिषु क्रोधानुत्पत्तिः । चकारात्तितिक्षादिकमपि । तृष्णामुक्तां सर्वानर्थकारिणी छित्त्वा द्वैधीभावं कृत्वोन्मूल्येत्यर्थः । हेतुजालस्य दुःखकारणसमूहस्य । मूलं कारणम् । बुद्ध्याऽन्तःकरणस्य निश्चयात्मकवृत्त्या शास्त्रेणैव । संचिन्त्याऽऽत्मनि सम्यक्तृ. ष्णाया अभावमधिगत्य। स्थापयित्वा तु रुद्रे तां बुद्धिं विषयगन्धशून्य आनन्दात्मनि स्वाभिन्न उक्ते रुद्रे गुरौ संस्थाप्यैव । न किंचिदन्यचिन्तयेदिति शेषः । ननु कुतो रुद्रे For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy