SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [७ सप्तमः प्रपाठकः] मैन्युपनिषत् । ४७३ मनः कायामिमाहन्ति स प्रेरयति मारुतम् । । मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ॥ मनः एवमाहुरिति । उद्बुद्धार्थवासनतयाऽऽत्मविवक्षानुगृहीतया बुद्ध्या नियुक्तं मनः कायाग्निं शरीरस्थितमूष्मरूपमग्निमाहन्ति प्रबोधयति । स कायाग्निर्मारुतं वायुं प्राणाख्यं प्रेरयति व्यापारयति घोषवन्तमापादयतीत्यर्थः । मारुतस्तूरसि चरन्संचरन्मन्द्रं खरं घोषं जनयति । खजाग्नियोगादि संप्रयुक्तमणोर्डाणुविरणुः कण्ठदेशे । जिह्वाग्रदेशे व्यणुकं च विद्धि विनिर्गतं मातृकमेवमाहुः ॥ ततः खनाग्नियोगान्निर्मन्थनकाष्ठं खज इत्युच्यते खजस्थानीयेनाग्निना योगाझ्युरःप्रदेशे संप्रयुक्तं सम्यगालोडितं तन्मारुतस्वरूपं मनोवृत्त्युपरक्तं प्रथममणोः सूक्ष्मात्केवलान्मारुताद्धि यस्मादणुरेव मन्द्रस्वरात्मको जातः सः । पुनः कण्ठदेशे प्राप्तं द्विरणद्विगुणितं पुनर्निह्वाग्रदेशे गतं व्यणुकं त्रिगुणितं विद्धि । एवं विनिर्गतं क्रमेणाभिव्यक्तं वर्णनातं मातृकं सर्वपदवाक्यानां योनिभूतमाहुरध्यात्मविद इत्यर्थः । हृदि संप्रयुक्तमणु मणुद्धिरणरिति यदि पाठस्तदा हृदि संप्रयुक्तमणु ततो ह्मणोद्विरेणुरित्यादि योज्यम् । . इदानी सर्व शास्त्रार्थ विद्वत्प्रशंसामिषेणोपसंहरति न पश्यन्मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्व हि पश्यन्पश्यति सर्वमामोति सर्वशः ॥ न पश्यन् सर्वश इति। एतस्मिशास्त्रे यत्तत्त्वं शब्दब्रह्मणः परस्य च ब्रह्मणोऽनेकविधमुपपादितं तद्यथोक्तविधिनोपायोपेयभावेन पश्यन्स्वानुभवमापादयन्यो भवति स मृत्यु संसारं पुनर्न पश्यति न रोगं पश्यति व्याधिं न पश्यतीत्यर्थः । उतापि दुःखतां दुःखमित्येतत् । आधिमपि न पश्यतीत्यर्थः । देहद्वयसंबन्धाभावान्नाऽऽधिव्याधिप्रसङ्गो जन्ममृत्युजरादिप्रसङ्गो वाऽस्य संभवेदित्यर्थः । हि यस्मात्पश्यज्ञानी सर्वं पश्यति सर्वमाधिव्याध्यास्पदं विषयत्वेनानुभवति न स्वधर्मत्वेनेत्यर्थः । यद्वा पश्यन्हि ज्ञानी सर्व सर्वात्मकं ब्रह्म पश्यति । अतः सर्वशः सर्वात्मना सर्वं ब्रह्माऽऽप्नोति ब्रह्मैव भवतीत्यर्थः । तस्माद्यथोक्तविधिना परापरब्रह्मतत्त्वावधारणमेव परमपुरुषार्थसाधनं परमानन्दाद्वयं ब्रह्मैवाऽऽत्माभेदेनाऽऽविर्भूतं पुरुषार्थ इति सिद्धमित्युपसंहारार्थो योज्यः ॥ यत्पुनरिन्द्रेन्द्राण्योः सुषुप्तं तुरीयं च पदं वक्तव्यं सिद्धवत्कृतमित्युक्तं तदिदानी प्रपञ्चयन्ती वेद्यतत्त्वमुपसंहरति चाक्षुषः स्वमचारी च सुप्तः सुप्तात्परश्च यः। भेदाश्चैतेऽस्य चत्वारस्तेभ्यस्तुर्य महत्तरम् ॥ १ क. 'रण्वित्या । २ ग. त्वं शाब्द' । ३ क. 'ध्यादि परवि। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy