________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४७२
रामतीर्थविरचितदीपिकासमेता-- [ ७ सप्तमः प्रपाठकः ] पुरुषश्चाक्षुषो द्विधा सतीति । योऽयं दक्षिणेऽक्षिण्यवस्थितश्चाक्षुषः पुरुषः प्रसिद्धो द्रष्टाऽयमिन्द्रः परमेश्वरः । या देवता सव्ये वामेऽक्षिण्यवस्थितेयमस्येन्द्रस्य जाया पत्नीति योजना । उक्तं च बृहदारण्यके-' इन्धो ह वै नाम योऽयं दक्षिणेऽक्षन्पुरुपस्तं वा एतमिन्धर सन्तमिन्द्र इत्याचक्षते परोक्षेण ' ( अ० ६) इति । ' अथ यद्वामेऽक्षिणि पुरुषरूपमेषाऽस्य पत्नी विराट् ' ( अ० ६ ) इति च । इयमनयोर्जाअदवस्थोक्ता। खममाह
समागमस्तयोरेव हृदयान्तर्गते सुषौ ।
तेजस्तल्लोहितस्यात्र पिण्ड एवोभयोस्तयोः ।। समागम इति । हृदयान्तर्गते सुषौ छिद्रे नाडीजालसमावृते तयोरिन्द्रेन्द्रायोः समागम एकस्थानेऽवस्थानं मिथुनीभाव इत्यर्थः । तयोरन्तर्हृदयाकाशे सुप्तयोस्तेजस्तेजनं जीवनमन्नमिति यावत् । तद्यल्लोहितस्य पिण्डः परिणामस्तदुभयोस्तयोरन्नमित्यर्थः । तथा च बृहदारण्यके–'तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽ. न्तर्हृदये लोहितपिण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव' इति । यदन्नं पानं चोपयुज्यते प्राणिभिस्तदौदर्येणाग्निना पच्यमानं स्थूलमध्यमाणिष्ठभागतामापद्यते तत्र स्थूलो भागः पुरीषमूत्रादिरूपो बहिर्गच्छति मध्यमस्तु नाडीद्वारा सर्व शरीरं रसलोहितमांसादिरूपेण परिणम्यानुप्रविशत्यणिष्ठस्तु मनआदीनुपचिनोति । तत्र यो मध्यमो रसभागः स लोहितपिण्ड इत्युच्यते तस्य शरीरस्थितिहेतुत्वात् । तयोस्तदन्नमिति तात्पर्यार्थः । इदानीं तयोः संचरणमार्गमाह
हृदयादायता तावच्चक्षुष्यस्मिन्प्रतिष्ठिता ।
सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती ॥ हृदयादिति । या नाडी हृदयान्निर्गता तावदायता दीर्घा यावच्चक्षुरतोऽस्मिंश्चक्षुषि प्रतिष्ठिता । सरतोऽस्यामिन्द्रेन्द्राण्याविति वा सारयत्येताविति वा सारणी नाम नाडी संचरणमार्गभूतैकाऽपि सती तयोर्द्वयोः सव्यदक्षिणाक्षिप्रापकत्वाविधोच्यत इत्यर्थः । ' अथैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्वा नाड्युच्चरति ' ( बृहदा० ) इति श्रुत्यन्तरम् ।
एवमनयोर्जाग्रत्स्वप्नावस्थातत्संचरणमार्गा उक्ता इदानीं सुप्तिप्राप्तिक्रमणावस्थात्रयातीतं तुरीयं पदमेकरसं तत्त्वमनयोर्वक्तव्यं तदिहादुक्तमेवेति सिद्धवत्कृत्य प्रकृतं वेदाविर्भावविषयं श्लोकजातमुदाहरति
१ ग. 'यती ता । २ ग. 'यती दी । ३ क. सुषुप्ति ।
For Private And Personal