SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [७ सप्तमः प्रपाठकः ] मैञ्युपनिषत् । ४७१ __ अप्सु प्रक्षेपको लवणस्येव घृतस्य चौष्ण्यमिव । अप्सु प्रक्षेपक इति । प्रक्षेप एव प्रक्षेपको यथा लवणस्य पिण्डीभूतस्याप्सु प्रक्षेपो न लवणस्वभावहानिकरस्तदवस्थस्यापि लवणरसानपायाद्यथा वा घृतस्यौष्ण्यमुष्णसंस्पर्शो न घृतमन्यथयत्येवमिदमपीत्यर्थः । आभ्यां दृष्टान्ताभ्यामयमप्यर्थः सूचितः। यथा जलाग्न्युपाधिविगमे लवणघृतयोः पूर्वावस्थापत्तिः पिण्डाकारेण तथा ब्रह्मतेजसोऽपि कायाग्निप्राणमनआधुपाध्यपगमे स्वरूपेण चिद्धनावस्थापत्तिरिति' न वेदस्यौनित्यत्वमिति । . इदानी सुप्तप्रबोधवज्झटिति वेदात्मना चिदाविर्भावे दृष्टान्तमाह __ अभिध्यातुर्विस्तृतिरिवैतदित्यत्रोदाहरन्ति । अभिध्यातुर्विस्तृतिरिवैतदिति । एतवेदरूपेण चैतन्यप्रसरणमभिध्यातुरभिध्यानकर्तुः संकल्पमात्रेण प्रासादादिकार्यनिर्मातुर्योगीश्वरस्य विस्तृतिविस्तार इव । अयमीश्वरचिद्विस्तारो वेद इत्यर्थः । अत्रास्मिन्नर्थ उदाहरन्ति पृच्छन्ति शिष्या इत्यर्थः । अथ कस्मादुच्यते वैद्युतः। किं तदाह-अथ कस्मादिति । उत्तरमाह यस्मादुच्चारितमात्र एव सर्व शरीरं विद्योत यति तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजः। यस्मादिति । यस्मादुच्चारितमात्र एवायं वेदः प्रणवात्मा सर्व शरीरं जगदित्येतत् । विद्योतयति प्रकाशयति तस्माद्वैद्युत इति वेद उच्यत इति योजना । यस्माद्धृतपिण्डवद्धनीभूतवेदावस्था प्रणवात्मकमिदं ब्रह्माऽऽसीत्तस्मादोमित्यनेनैतदपरिमितं ब्रह्म तेज उपासीत प्रणवमालम्ब्य ब्रह्म ध्यायीतेत्यर्थः । एतदुक्तं भवति सर्ववेदार्थावलम्बननिबन्धना हि सर्वे कामाः पुरुषार्थभूताः प्रसिद्धास्ते सर्वे प्रणवालम्बनं ब्रह्म ध्यायतो भवन्ति प्रणवस्य सर्ववेदात्मकत्वाद्ब्रह्मणश्च सर्वार्थात्मकत्वात्सर्वपुरुषार्थरूपत्वाच्चेति । वेदोद्गमस्यानन्तरं निरूपणात्तदर्थप्रकाशकाः श्लोका मनः कायाग्निमाहन्तीत्यादय एवात्र यद्यपि निवेशयितुं युक्तास्तथाऽप्योमित्यनेनैतदुपासीतेति परस्य तेजस उपासनविधानादुपास्यस्य तेजसो विशेषावस्थावस्थानं वक्तुं मध्ये पुरुष इत्यादयः श्लोका उपात्ताः । तेषां च चाक्षुषः स्वप्नचारी चेति परत्र वर्तिष्यमाणैः श्लोकैरेकवाक्यता बोद्धव्या । तथा च यथापाठक्रममिह व्याख्यानेऽप्यर्थक्रमेणैवार्थसंगतिर्द्रष्टव्या।। पुरुषश्चाक्षुषो योऽयं दक्षिणेऽक्षिण्यवस्थितः । इन्द्रोऽयमस्य जायेयं सव्ये चाक्षिण्यवस्थिता ॥ १ क. ति वे । २ क. स्यापि नि । ३ क. 'रिव त” । ४ क. 'स्यते । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy