SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४७० रामतीर्थविरचितदीपिकासमेता - [७ सप्तमः प्रपाठकः ] परं तेजस्तदेव च वेदस्य स्वरूपमित्युक्तं भवति । तेदेवैवंलक्षणं तेजः प्रथममकारात्मकमासीदित्याह – एतद्वावेति । यदोमित्येतदक्षरं प्रसिद्धमस्ति तदेतद्वाव खेऽन्तर्भूतस्य नभसो रूपमभिव्यक्तं रूपान्तरमित्यर्थः । कुत एतदित्यत आह अनेनैव तदुर्बुध्यत्युदयत्युच्छ्रस (सि) त्यजत्रं ब्रह्मधीयालम्बं वाऽत्रैव । अनेनैति। एतत्तेजोऽनेनैवोमित्येवमात्मकेनाक्षरेण रूपेण तदुदुर्बुध्यत्युन्नतबुध्नं भवति बीर्जंमिवोच्छूनैति* वेदस्याऽऽद्यावस्थारूपं जायत इत्यर्थः । तत उदयत्युद्गच्छत्यकुर इवान्तर्नादरूपप्रणवाकारं भवति । ततः क्रमेणोच्छूस (सि) त्युच्छ्रास इव दीर्घस्वरेणोच्चारणस्थानं प्राप्याक्षररूपमवतिष्ठत इत्यर्थः । एवमभिव्यक्तप्रणवाकार ब्रह्मतेजोरूपो daisai नैरन्तर्येण ब्रह्मधीयालम्बं विश्लिष्टपाठश्छान्दसः । ब्रह्मबुद्धेरुपासनात्मिकाया आलम्बनमित्यर्थः । वाशब्दाद्ब्रह्मतत्त्वबुद्ध्यालम्बनं चेत्यर्थः । अधिकारिभेदाद्बुद्धि - यालम्बनत्वविकल्पार्थो वा वाशब्दः । अत्रैवास्यामेवावस्थायामेतत्तेजः प्रणवमात्राकारं सत्समीरणे कोष्ठगते प्राणे घोषवति सहकारिणि संपन्ने सतीति शेषः । प्रकाशं प्रक्षिपति त्यजतीति प्रकाशप्रक्षेपको जठरकूहरचार्यग्निस्तस्यौष्ण्यस्थाने भवं प्रकाशप्रक्षेपकौष्ण्यस्थानीयं तत्तेजोऽनुप्रसरतीत्युत्तरत्रान्वयः । अनुप्रसरणप्रकारं दृष्टान्तेन स्पष्टयति एतत्समीरणे प्रकाशप्रक्षेपकौष्ण्यस्थानीयमेतद्धूमस्येव समीरणे नभसि प्रशाखयैवोत्क्रम्य स्कन्धात्स्कन्धमनुसरति । एतदिति । एतदनुप्रसरणं धूमस्यैव द्रष्टव्यम् । यथा धूमो नभसि समीरणे वायौ वाति सति प्रशाखयैव प्रकृष्टया शाखया शाखाकारया लेखयोत्क्रम्योर्ध्वदेशं गत्वा वृक्षस्य स्कन्धात्स्कन्धमनुसरति तत्तत्स्कन्धैरभिहन्यमानस्तत्तदाकारतामश्रुते तथैतद्ब्रह्मतेजो मूलाधारोपर्यग्निमण्डले तस्थेनाग्निना संतप्तेऽभिव्यक्तं घोषवत्प्राणवायुनाऽग्नौ धम्यमाने तमेव वायुमग्निं चोपाधिमवष्टभ्य प्रथमं नादमात्रप्रवात्मनाऽऽविर्भूय क्रमेण हृत्कण्ठताल्वादिस्थानैः प्रसरणावच्छेदैरभिहन्यमानं नानावर्णात्मनोद्र्य नानावेदशाखात्मकं भवतीति दार्शन्तिकं योज्यम् । एवमेकरूपैस्यापि चैतन्यज्योतिषोऽनेकरूपवेदात्मना प्रसरणे दृष्टान्तमुक्त्वा प्रसरणे - नावस्थान्तरं गतस्यापि न स्वभावान्यत्वं स्वरूपविनाशो वेत्यत्र दृष्टान्तद्वयमाह - * आचारक्किबन्तम् । १ क. 'व वे । २ क तदेव वेदल । ३ क. 'बुध्न्यत् । ६ क. 'जस्येवो' । ७ क. 'नता वे । ८ क. दित्याह । ४क. 'हुध्न्यत्युं । ५. त्येना । ९ ग. 'पस्य चैं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy