________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४७४
रामतीर्थविरचितदीपिकासमेता- [७ सप्तमः प्रपाठकः ] चाक्षुषः० महात्मन इतीति । यः पूर्व पुरुषश्चाक्षुष इत्यादौ दक्षिणसव्याक्ष्णोरिन्द्रेन्द्राणीरूपमिथुनात्मना जाग्दवस्थाभोक्ताऽऽत्मा निर्दिष्टः स इह चाक्षुष उच्यते । स एव हृदयनाडीसुषिरेषु संचरन्वासनामयविषयद्रष्टा स्वप्नचारी भवति । उभयविधदर्शनवृत्त्युपरमे च सुप्तः सुषुप्तिं गतः स भवति । एवमेते त्रयस्तिसृणामवस्थानां भोक्तारो विश्वतैजसप्राज्ञसंज्ञका उक्ताः । यश्च सुप्तात्परः शुद्ध आत्मा स उक्तविश्वाद्यात्मत्रयापेक्षया तुरीय उच्यते । एवमुक्तप्रकारेणास्य चिदात्मनो भेदाश्चत्वारः प्रसिद्धास्तेभ्यस्तेषु मध्ये तेभ्यो वा विश्वादिभ्यो विश्वायपेक्षया तुर्य तुरीयं चतुर्थ पदं महत्तरमतिशयेन महदत्यन्तमपरिच्छिन्नमित्यर्थः ॥ तुरीयस्य महत्तरत्वमुपपादयति
त्रिष्वेकपाचरेब्रह्म त्रिपाच्चरति चोत्तरे ॥ त्रिष्विति । त्रिषु जाग्रदादिषु स्थानेष्वेकपात्तुरीयाख्यं ब्रह्म चरेत्सर्वकल्पनाधिष्ठानत्वेनानुगतं वर्तत इत्यर्थः । त्रिपाद्ब्रह्म विश्वतैजसप्राज्ञाख्यमुत्तर उत्तरस्मिंस्तुरीये चरति तदाश्रितं सद्वर्तत इत्यर्थः । एतदुक्तं भवति । कार्य कारणमिति जगतोऽवस्थाद्वयं प्रसिद्धम् । तत्र कार्य स्थूलं सूक्ष्मं चेति द्विविधम् । तयोः स्थूलकार्योपाधिविश्वः सूक्ष्मकार्योंपाधिस्तैजसः । एतयोः स्वस्वोपाधिपारतन्त्र्यात्तावन्मात्रपरिच्छिन्नाविति नैतौ महत्तरौ । कारणावस्थनगबीजोपाधिस्तु प्राज्ञः स कारणस्य स्वोपाधेः कार्यव्यापित्वादवस्थान्तरमपि व्याप्नुवन्पूर्वापेक्षया व्यापक इति महान्भवति । एतत्रितयं येनानवच्छिन्नप्रकाशात्मना साक्षिणा भास्यते यत्सत्तया च सदिति व्यवह्रियते तत्तुरीयं कार्यकारणोपाधिद्वयरहितं परिच्छेदकाभावादपरिच्छिन्नं महत्तरमिति । तदुक्तम्- "कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतः' इति ॥ तर्हि किं परिच्छिन्नापरिच्छिन्नरूपेणाऽऽत्मभेदोऽङ्गीकृतो नेत्याह
सत्यानृतोपभोगार्थो द्वैतीभावो महात्मन इति
द्वैतीभावो महात्मन इति ॥ ११ ॥
इति मैञ्युपनिषदि सप्तमः प्रपाठकः ॥ ७ ॥ सत्येति । सत्यमनिदं चिदात्मरूपमनृतं पराग्रूपमवस्थात्रयतदभिमानिलक्षणं ताभ्यां परस्पराध्यस्ताभ्यामुपभोगो व्यवहारः सत्यानृतोपभोगः स एवार्थस्तस्मात्तन्निमित्तं महा
* उपभोगार्थादितिपाठानुरोधेनेदम् ।
क. तुर्येण सि । २ ग. गार्था ।
For Private And Personal