SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ७ सप्तमः प्रपाठकः ] मैञ्युपनिषत् । ४६१ क्तितारतम्यवत् । तद्ब्रह्मान्तर्यामित्वलक्षणमभिष्ट्रयमानमभितः स्तूयमानं प्रशस्ततयोपलभ्यमानं महो देवो महान्देवोऽखण्डचिदात्मको भुवनान्याविवेश यदेवंविधमात्मतत्वं तदेव ब्रह्म यच्चेदं ब्रह्म तदेव महान्देवो भुवनानि स्थावरजङ्गमादिजीवरूपेणाऽऽविवेश तस्मादात्मैव ब्रह्म ब्रह्मैवाऽऽत्मेत्यभेदेन ध्यानं प्रशस्तं तत्कर्तव्यमिति भावः । ॐ नमो ब्रह्मणे नम इति शान्तिपाठो मङ्गलार्थः ॥ ३८ ॥ इति श्रीरामतीर्थविरचितायां मैत्रीशाखोपनिषद्दीपिकायां षष्ठः प्रपाठकः समाप्तः ॥ ६ ॥ अथ सप्तमः प्रपाठकः । सप्तमोऽप्ययं प्रपाठकः प्रकीर्णानेकोपदेशपरः । तत्राऽऽदितः सप्तभिरनुवाकैः सवित्राश्रयमुपासनं स्वतन्त्रं सविस्तरं सफलमात्मपर्यवसितमुपदिशति अग्निर्गायत्रं त्रिद्रथंतरं वसन्तः प्राणो नक्षत्राणि वसवः पुरस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति । अग्निर्गायत्रमित्यादिना । अग्निर्गायत्र० अन्तरान्तर इति । अग्निर्देवता । गायत्रं छन्दः । त्रिवृत्स्तोमः । रथंतरं साम । वसन्त ऋतुः । प्राणः प्राणनवृत्तिरनः । नक्षत्राण्यश्विन्यादीनि । वसवो देवगणविशेषः । एते सर्वे मूर्तिमन्तः सवितुः पुरस्तात्पु. रोभाग उद्यन्ति । एतैः पुरोभागे परिवृतः सविता ध्येय इति विवक्षितम् । तापकाल एते तपन्ति वर्षासु वर्षन्ति तत्तदवसरे सवितारं स्तुवन्ति पुनरस्तं गच्छन्ति सवितर्यन्तर्विशन्ति । अथवा भोगकाले सवित्राश्रितममृतं भोक्तुमन्तर्विशन्ति सवितृमण्डलमनुप्रविशन्ति । विवरेण द्वारेण किरणप्रवृत्तिमार्गेणेक्षन्ति भोज्यममृतमक्षिन्ते पश्यन्ति । अथवा विवरेण समयविशेषेण भोगप्रतीक्षां कुर्वन्तीत्यर्थः । एतदप्यग्न्यादीनां वृत्तान्तं ध्येयं वेदितव्यम् ॥ एवंविधैः पुरोवर्तिभिः स्तूयमानं सावित्रं स्वरूपं ध्येयं निर्दिशति अचिन्त्योऽमूर्तो गभीरो गुप्तोऽनैवद्यो घनो गहनो निर्गुणः शुद्धो भास्वरो गुणभुग्भयोऽनिर्वृत्तियोगीश्वरः सर्वज्ञो मघोऽ. प्रमेयोऽनाद्यन्तः श्रीमानजो धीमाननिर्देश्यः सर्वसृक्सर्वस्याऽऽत्मा सर्वभुक्सर्वस्येशानः सर्वस्याऽऽन्तरान्तरः ॥ १॥ अचिन्त्य इत्यादिना । अमूर्त इति च्छेदः । अचिन्त्यो मनसोऽगोचरः । अमूर्तोऽ. परिच्छिन्नः । गभीरो दुरवगाहः कर्मेन्द्रियागोचर इत्यर्थः । गुप्तो ज्ञानेन्द्रियाविषयः । १ क. 'नस्तं । २ क. 'नघो घौं । ३ क. 'यो भात्यन्तः । ४ क. मस्याऽऽ' । ५ क. . भृत्सर्व। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy