________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४६२
रामतीर्थविरचितदीपिका समेता [७ सप्तमः प्रपाठकः ]
1
अनवद्यः पुण्यपापरहितः । घनोऽभेद्यः । गहनो दुर्विवेकः । निर्गुणो रूपादिगुणरहितः । शुद्धा निर्लेपः । भास्वरः सर्वावभासकभारूपः । गुणभुक्त्रिगुणविकारसाक्षी । बिभेत्यस्मात्सर्वमिति भयः कालरूपः । अनिर्वृत्तिरकार्यरूपः । यद्वा निर्वृत्तिः सर्वसिद्धिरूपः । प्रसिद्धार्थमन्यत् । मघो मघवानिन्द्रः पूज्य इत्यर्थः । सर्वस्याऽऽन्तरो भोक्ता जीवस्तस्याप्यान्तर आन्तरान्तरोऽन्तर्यामीत्यर्थः ॥ १ ॥
इन्द्रस्त्रिष्टुप्पञ्चदशो बृहद्रीष्मो व्यानः सोमो रुद्रा दक्षित उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्त्यनाद्यन्तोऽपरिमितोऽपरिच्छिन्नोऽपरंप्रयोज्यः स्वतत्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः ॥ २ ॥ इन्द्रस्त्रिष्टुमित्यादि समानम् । इन्द्रस्त्रिष्टु० भास्कर इति । अनाद्यन्त इत्यादिविशेषणानि सवितुः पूर्ववद्ध्यानार्थानि यथाशब्दं विज्ञेयानि ॥ २ ॥
मरुतो जगती सप्तदशो वैरूपं वर्षा अपानः शुक्र आदित्याः पश्चादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति तच्छान्तमशब्दमभयमशोकमानन्दं वृतं स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम ॥ ३॥ मरुतो जगतीत्यादि समानम् । मरुतो जगती० परं धामेति ॥ ३ ॥
विश्वे देवा अनुष्टुवेकविंशो वैराजः शरत्समानो वरुणः साध्या उत्तरत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्त्यैन्तःशुद्धः पूर्तेः शून्यः शान्तोऽमाणो निरात्माऽनन्तः ॥ ४ ॥ विश्वे देवा इत्यादि समानम् । विश्वे देवा० निरात्माऽनन्त इति ॥ ४ ॥ मित्रावरुणौ पत्रिणवत्रयस्त्रिंशौ शाकररैवते हेमन्त शिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति प्रणवाख्यं प्रणेतारं
भारूपं विगतनिद्रं विजरं विमृत्युं विशोकम् ॥ ५ ॥ मित्रावरुणौ पङ्क्तिरित्यादि समानम् । मित्रावरुणौ ० विशोकमिति ॥ ९ ॥ एवं पञ्चसु दिक्षु क्रमेण ध्येयविशेषानुपदिश्याधोभागे च ध्येयविशेषमुपदिशतिशनिराहुकेतूर गरक्षोयक्ष नरविहगशरभे भादयोऽधस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति यः प्राज्ञो
Ε
विवरणः सर्वान्तरोऽक्षरः शुद्धः पूतो भान्तः क्षान्तः शान्तः ॥ ६ ॥
१ क. अनघः । २ क.॰रयो । ३ क न्त्यतः शुं । ४क. 'त: शा । ५ क. विसृ । ६क. विधार' |
For Private And Personal