SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४५६ रामतीर्थविरचितदीपिकासमेता - [६ षष्ठः प्रपाठकः ] विद्युदिवाभ्राचिषः परमे व्योमन्निति । परमे व्योम्नि महाकाशे यथाऽभ्रार्चिषोऽभ्रान्तर्गतस्याखण्डस्यार्चिषो विद्युद्विद्युदाकारावभासस्तथा ते जीवात्मानो यशसः परमात्मनः, 'तस्य नाम महद्यशः' इति श्रुतेर्यशः परमात्मा तस्य यदचिश्चैतन्य प्रकाशस्तस्य वा आश्रयवशाच्चैतन्याभासखचितत्वोत्तत्प्रतिविम्बाधारत्वाद्वाऽविद्याकार्य देहद्वयरूपा विविक्ता जीवा इति व्यपदिश्यन्त इति योज्यम् । यथा कृष्णवर्त्मनोऽग्नेरभिरूपा जटा ज्वालाः स्फुलिङ्गाः प्रकाशाश्रयत्वादने काग्नित्वमापद्यन्ते स्फुलिङ्गादिव्यपदेशभेदं 'च तैथेत्यर्थः ॥ ३९ ॥ 3 जीवद्वैततत्त्वमेवमाविष्कृत्य जीवेश्वरद्वैतमाविष्करोति Acharya Shri Kailashsagarsuri Gyanmandir द्वे वा खल्वेते ब्रह्मज्योतिषो रूपके शान्तमेकं समृद्धं चैकमथ यच्छान्तं तस्याssधारं खमथ यत्समृद्धमिदं तस्यानं देवा उदाहरन्तीति । ब्रह्मज्योतिषो ब्रह्मात्मकस्य चित्प्रकाशस्य द्वे वाव खलु रूपके ज्ञापके । एकं शान्तं समृद्धं चैकम् । ते एवाऽऽश्रयभेदनिर्देशेन विभजते । अथ तयोर्मध्ये यच्छान्तं तस्य खमाकाशमाधारमाश्रयः । क्लैब्यं छान्दसम् । खे व्याप्य व्यवस्थितोऽखण्डप्रकाशः । शान्तं रूपकमीश्वरस्याभोक्तुः स्वरूपज्ञापकमित्यर्थः । अथ यत्समृद्धं तस्येदमन्नमाधार इत्यनुवर्तते । अन्ने भोक्तृत्वेन व्यवस्थितं ब्रह्मज्योतिस्तस्य जीवत्वज्ञापकं भोक्ता जीव इत्यर्थः । तथा च मन्त्रः- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति " (ऋ० सं० मं० १ सू० १६४ ) इति । विभागनिर्देश प्रयोजनमाह- 66 तस्मान्मत्रौषधाज्यामिषपुरोडाशस्थालीपाकादिभिर्यष्टव्यमन्तर्वेद्याम् । तस्मादिति । यस्मादेवं ब्रह्मैव जीवेश्वररूपेण विभक्तं वर्तते तस्मान्मन्त्रौषधाज्यादिभिर्मन्त्रोपबृंहितैरौषधादिभिर्हविर्भिरन्तर्वेद्यां त्रेताविहितायां गृह्येोक्तायामपि स्थण्डिलादिरूपायां यष्टव्यमीश्वरात्मकब्रह्मयजनं कर्तव्यमित्यर्थः । औषधं चरुधानादि । आमिषं पश्वङ्गावदानम् । पुरोडाशो मन्त्रसंस्तुतः पिष्टपाकविशेषः । स्थालीपाकः स्मार्तश्वरुः । आदिशब्दात्पयः सोमादि गृह्यते । तथा जीवरूपब्रह्मयजनमपि कार्यमित्यभिप्रेत्याऽऽह - आस्न्यवशिष्टैरन्नपानैश्चाऽऽस्यमाहवनीयमिति मत्वा आस्न्यवशिष्टैरिति । अवशिष्टैरन्नपानैश्च महायज्ञाद्यवशिष्टैः स्वभोजनत्वेन पश्चाद्विहितैरिति वाऽन्नपानैरास्न्यास्ये यष्टव्यमिति पूर्वेणान्वयः । यस्मिन्नास्येऽन्नपानाभ्यां १ क. "भासा ख' । २ क. त्वात् । ३ क. 'मिरूपत्व' । ४ क. 'लिङ्गव्य ं । ५ क. तथैवेत्य ं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy