SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४५५ [६ षष्ठः प्रपाठकः] मैञ्युपनिषत् । एतद्ब्रह्मविषयमिति । ब्रह्म विषयो यस्मिंस्तत्तथा ब्रह्मप्राप्तिद्वारमित्यर्थः । एतद्भानुरर्णव इत्येकं पदं तेजोराशिरित्यर्थः । यद्वा भानुः प्रकाशस्वभावोऽर्णवोऽर्ण उदकं वहति प्रापयति वृष्टिद्वारेणेत्यर्णव इत्यर्थः । तस्मिन्नर्णव एव यजमानाः कर्मिणस्तदविरोधेनोपासकाश्च सैन्धव इव सैन्धवखिल्य इवोदके निक्षिप्तो ब्लीयन्ते विलीयन्ते तदास्मतां गच्छन्तीत्यर्थः । यदेवमस्मिन्यजमानानां विलयनमेषा वा एषैव ब्रह्मैकता कार्यब्रह्मसायुज्यप्राप्तिरेवोपासनाफलं न परब्रह्मसायुज्यमित्यभिप्रायः । तत्र हेतुरत्र हि यस्मात्सर्वे कामाः काम्यमाना विषयाः समाहिताः स्थिताः सन्तीत्यर्थः । कार्यब्रह्मलोके हि संकल्पमात्रसिद्धाः पित्रादिलक्षणाः कामाः श्रूयन्ते ‘स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते' (छान्दो अ० ८ ) इत्यादौ । इतिशब्दो महिमोपवर्णनसमाप्त्यर्थः । अत्रोक्तफल उदाहरन्ति ऋषय इत्यर्थः । अंशुधारय इवाणुवातेरितः संस्फुरत्यसावन्तर्गः सुराणाम् । यो हैवंवित्स सवित्स द्वैतवित्सैकधामेतः स्यात्तदात्मकश्च । अंशुधारय० कृष्णवर्मन इति । असौ सवितारमीशं प्रविष्टो मुक्तो यजमानः मुराणां सर्वेषां देवानामन्तर्गोऽन्तर्गतः संस्फुरति सर्वदेवतात्मा भवति। क इवेत्युच्यते । अणुवातेरितोऽल्पवायुना प्रेरितोऽशुधारय इवांशून्धारयतीत्यंशुधारोंऽशुधार एवांशुधारयः प्रदीपः । धर्ता च विधर्ता च विधारय इतिवत्प्रयोगः। यो हैवंवित्स सवित्। विदा ज्ञानेन सह वर्तत इति सविद्विद्वानित्यर्थः । स द्वैतवित्। द्वैतं परापरब्रह्मभेदं वेत्तीति द्वैतवित् । यद्वा जीवानां द्वैतं भेदतत्त्वं वेत्तीति द्वैतवित् । स विद्वानेकधामैकं मुख्यं धामेतः प्राप्तः स्याद्भवेत् । यस्य धाम प्राप्नोति तदात्मकश्च तत्स्वरूपश्च भवेत् । ब्रह्मैव क्रमेण स भवतीत्यर्थः । द्वैतवित्त्वं प्रपञ्चयति ये बिन्दव इवाभ्युच्चरन्त्यजस्रं ये बिन्दव इवेति । ये महासमुद्राद्विन्दव इव वायूद्धृताः परमात्मनः सकाशादविधाकार्योद्भूता अजस्रं पुनः पुनर्जागरितादावभ्युचरन्ति पृथगुत्तिष्ठन्ति तेऽर्चिषो वा इत्युत्तरेणान्वयः । पृथग्भावावभासमात्रांशे दृष्टान्तमुक्त्वा पृथग्भूतस्यैव सतः पृथक्परिच्छेदप्रतिभासे दृष्टान्तमाह विद्युदिवाभ्रार्चिषः परमे व्योमन् । तेऽषिो 4 यशस आश्रयवशाजटाभिरूपा इव कृष्णवर्त्मनः ॥ ३५ ॥ १ क. वशिलेव । २ क. तो विली । ३ क. 'देतदस्मि । ४ क. अत्र । ५ क. 'न्तर्गतः सु'। ६ क. देवताना । ७ क. वै यद्यश । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy