________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिरउपनिषत् । यः सर्वाल्लोकान्संभक्षः संभक्षयत्यजसं सृजति विसृजति वासयति तस्मादुच्यते महेश्वरोऽथ कस्मादुच्यते महादेवो' यः सर्वान्भावान्परित्यज्याऽऽत्मज्ञानयोगैश्वर्ये महति महीयते तस्मादुच्यते महादेवः । तदेतद्रुद्रचरितम् । एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्ने अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति विश्वतोमुखः ।
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । यः सर्वाल्लोकान् । व्याख्यातम् । संभक्षः सम्यग्भक्षो यस्यासौ संभक्षः। संभक्षयति सम्यग्भक्षणं करोति । अजस्रं निरन्तरम् । सृजति विसृजति वासयति । व्याख्यातम् । तस्मादुच्यते महेश्वरः। स्पष्टम् । अथ कस्मादुच्यते महादेवः। पूर्ववत् । यः सर्वान्भावान् । व्याख्यातम् ।परित्यज्य समन्तात्त्यक्त्वा। आत्मज्ञानयोगैश्वर्ये, अहं ब्रह्मास्मीत्यात्मज्ञानं तदेव योगैश्वर्यं तस्मिन् । महति प्रौढे । महीयते सोगिभिः पूज्यते । तस्मादुच्यते महादेवः । स्पष्टम् । तत्प्रसिद्धम् । एतन्नामनिरुक्तिरूपम् । रुद्रचरितं रुद्रस्य देवानामात्मोपदेशकस्य चरितं चेष्टितं रुद्रचरितम् । इदानीं नामनिरुक्तिं कृत्वा हर्षनिर्भरमानसा सती सानुकम्पा पुरुषेण ज्ञातव्यं ब्रह्मरूपं पुरुषाभिन्नमस्मान्प्रत्याह । एष बुद्धेर्द्रष्टा । हि प्रसिद्धः । देवः स्वयंप्रकाशः । म दिशो नु प्रेति तिष्ठतिना संबध्यते । वित्याश्चर्ये । दिशः प्राच्याद्या आग्नेय्याद्याश्च । सर्वा अष्टौ दश वा निखिला दिक्शब्दप्रत्ययालम्बनाः सर्वा अपीत्यर्थः । प्रदिशोऽवान्तरदिशो वा । अस्मिन्पक्षे किमवान्तरा एवेत्याह सर्वा इत्याशक्य व्याख्येयम् । पूर्वो हि जातः सः । स्पष्टम् । अनेन व्याकृतरूपतोक्तेदानी सूत्रात्मतामाह । उ,अपि । गर्भे भूतपश्च. कस्याप्रधानस्य गर्ने वर्तमान्ये ब्रह्माण्डरूपो गर्भरूपोऽपि स एवेत्यर्थः । इदानीमनारोपितपुरुषावयवं विराटशब्देनाप्यभिधीयमानं प्रजापतिमाह । अन्तः , गर्भ इति मन्त्रेणावगन्तव्येऽन्तर्गर्भे गर्भस्यान्तः प्रजापतिरूपः । यस्य मेरुर्महीधरः । जरायुरित्यादि पुराणे कथ्यते । इदानीं सर्वात्मत्वमात्मन आह । स एवजातः स जनिष्यमाणः। अतीतानागतयोर्ग्रहणे वर्तमानस्याप्यर्थसिद्धं ग्रहणम् । स्पष्टः पदार्थः । इदानीं सर्वात्मस्वेन जनिमरणादिप्राप्तिस्तां निवारयति । प्रत्यबुद्ध्यादिभ्यः । प्रति प्रातिकूल्येनान्तरेवाञ्चति गच्छतीति प्रत्यङ् । जना हे जनाः । तिष्ठति, अवस्थानं करोति प्रकघेणावस्थानं करोति । विश्वतोमुखः, विश्वतः सर्वतः सर्वामु दिक्षु मुखान्युपलब्धिद्वाराणि यस्य स विश्वतोमुखः । जगत उत्पत्तिस्थितिसंहारेष्वस्य स्वातन्त्र्ये हेतुमाह । विश्वतश्चक्षुः सर्वतोनेत्रः । उत, अपि । विश्वतोमुखः । सर्वतआननः । विश्वतोबाहुः सर्वतोभुनः । उत , अपि । विश्वतस्पात्सर्वतश्चरणः । अयमर्थः । यानि
१ घ. वो यस्मादुच्चार्यमाण एव यः । २ ग. त्यग्जना।
For Private And Personal