SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेता जननीयुः प्रत्यञ्जनास्तिष्ठति संयुगस्यान्तकाले संहृत्य विश्वा भुवनानि गोप्ता तस्मादुच्यत एको रुद्रोऽथ कस्मादुच्यत ईशानों यः सर्वालोकानीशत ईशनीभिर्जननीभिः परमशक्तिभिरभि त्वा शूर नोनुमोदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमिन्द्र तस्थुषस्तस्मादुच्यत ईशानोऽथ कस्मादुच्यते भगवान्सर्वान्भावानीक्षत्यात्मज्ञानं निरीक्षयति योगं गमयति तस्मादुच्यते भगवानथ कस्मादुच्यते महेश्वरों* मित्यर्थः (?) | जननीयुर्विश्वोत्पादकशक्तिमान् । प्रत्यङ्बुद्ध्यादिभ्यः प्रति प्रातिकूल्येनान्तरेवाञ्चतीति प्रत्यङ्सर्वान्तर इत्यर्थः । जना हे जनाः । तिष्ठति । स्पष्टम् । संयुगस्यान्तकाले सम्यग्युगजातस्यान्तकालो विनाशकालस्तस्मिन् । तदवस्थानप्रकारमाह । संहृत्य, उपसंहारं विधाय । विश्वा विश्वानि । भुवनानि स्थानानि । समग्रं विश्वमित्यर्थः । गोप्ता रक्षिता । तस्मादुच्यत एको रुद्रः । स्पष्टम् । अथ कस्मादुच्यत ईशानः । पूर्ववत् । यः प्रसिद्धः । सर्वान्निखिलान् । लोकान्कर्म - फलभूतान् । ईशत ईष्टे । ईशनीभिर्नियमनशक्तिभिः । अविद्याविलासैरित्यर्थः । तासां विशेषणं जननीभिर्विश्वोत्पादिकाभिः । परमशक्तिभिरचिन्त्यत्वेनोत्कृष्टाभिः शक्तिभिः । उक्तेऽर्थे मन्त्रं रथंतरसामगानाधारं पठति । अभि त्वा त्वामीशानम् । शूर शौर्य संपन्न । नोनुमभिनोनुमः सर्वतोऽतिशयेन स्तुतिं कुर्मः । त्वथि क्रियमाणाः स्तुतयः पुरुषस्याभष्टिं पयः स्रवन्तीत्येतद्दृष्टान्तेनाऽऽह । अदुग्धा इव धेनवः । घटोघ्न्यः स्तनभारमन्थराः स्वयंच्युतपयसा भूमिं कर्दमी कुर्वन्त्यो हुंभारवेण दोग्धारमाकारयन्त्यो गृहीतक्षीरा गावो यथा तद्वत् । त्वदीयाः स्तुतय इति शेषः । ईशानं नियन्तारम् | अस्य विविधप्रमाणगम्यस्य । जगतः कार्यकारणात्मकस्य प्रपञ्चस्य जङ्गमस्य । सुवर्दृशं सुवनिरतिशयसुखं तद्वद्दर्शनीयं सुखवदेकान्तं सुवर्दशं स्वयंप्रकाशमानन्दात्मानमित्यर्थः । जङ्गमभागस्य नियन्तृत्वमुक्त्वा स्थावरभागस्य नियन्तृत्वमाह । ईशानमीश्वरम् । इन्द्र इन्द्रः परमैश्वर्यसंपन्नः संबोधनं चेश्वरस्य । तस्थुषः स्थावरमात्रस्य जगतः । 1 तस्मादुच्यत ईशानः । स्पष्टम् । अथ कस्मादुच्यते भगवान् । पूर्ववत् । ज्ञानादि • मत्त्वाद्भगवत्त्वमित्याह । यः प्रसिद्धः परमेश्वरः । सर्वान्निखिलान् । भावान्पदार्थान् । ईक्षति, ईक्षते । आत्मज्ञानमहं ब्रह्मेति साक्षात्कारम् । निरीक्षयत्यस्मदादीनां कारयति । अपि च योगं जीवब्रह्मतादात्म्यसंबन्धम् । गमयति पुनर्युत्थानशून्यत्वेन प्रापयति । तस्मादुच्यते भगवान् । स्पष्टम् । अथ कस्मादुच्यते महेश्वरः । पूर्ववत् । १ ग. 'त्यग्जना' । २ घ. 'नो यस्मादुच्चार्यमाण एव यः । ३ घ वान्यस्मादुच्चार्यमाण एव स' । ४ घ. 'रो यस्मादुच्चार्यमाण एव यः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy