________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] पृथिवीलोकनिवासाय लोकस्मृते पृथिवीलोकस्य स्मर्ने यजमानार्थ चिन्तयतेऽग्नये गार्हपत्यात्मने नमः प्रह्वीभावोऽस्तु । अस्मै यजमानाय मह्यं लोकं पृथिवीलोकं धेहि मदर्थ धारयाहमुत्तरकाले त्वदात्मा सन्निमं लोकं प्राप्स्यामीत्यर्थः । एवमेवोत्तरे मन्त्रा योज्याः । आदित्योपस्थानमन्त्रान्पठति
हिरण्मयेन पात्रेण सत्यस्याभिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय विष्णवे । __ योऽसा आदित्ये पुरुषः सोऽसा अहमिति । हिरण्मयेन० असा अहमिति । हिरण्मयेन ज्योतिर्मयेन पात्रेण मण्डलरूपेणामत्रेण सत्यस्य सत्यात्मनो ब्रह्मणो मुखं प्राप्तिद्वारमैभिहितमपिहितमाच्छादितं वर्तते । हे पूर्षेन्हे सूर्य त्वं तदपावृणु तवारमुद्धाटय । किमर्थं सत्यधर्माय । किंलक्षणाय विष्णवे व्यापनशीलाय व्याख्यास्यमानसत्यधर्मविष्णुस्वरूपप्राप्तय इत्यर्थः । योऽसौ परोक्ष आदित्ये मण्डलोपलक्षिते देवतात्मनि पुरुषः पूर्णोऽन्तर्यामी सोऽसौ स एवाहं नाहं तस्मादन्य इत्यर्थः । यद्वेत्थं योजना । य आत्मनि पुरुषोऽसावादित्ये पुरुष आत्मा यश्चासावादित्ये पुरुषः सोऽहमात्मनि पुरुषः । अतोऽन्तःकरणोपलक्षितस्याऽऽदित्यदेवतोपलक्षितस्य चाऽऽवयोर्न भेदोऽस्तीत्यर्थः । इतिशब्द उपस्थानमन्त्रसमाप्त्यर्थः । सत्यधर्मपदस्यार्थमाह
एपे ह वै सत्यधर्मो यदादित्यस्याऽऽदित्यत्वं तच्छुक्लं पुरुषमलिङ्गं .. एष ह वै० उदाहरन्तीति । एष हैव वै प्रसिद्धः सत्यधर्मः । कः। आदित्यस्याऽऽदित्यत्वमिति यदेष हीति योजना । आदाय यातीत्यादित्यः। तथा च श्रुत्यन्तरे निर्वचनम्-'यदिदं सर्वमाददाना यन्ति तस्मादादित्याः' (बृहदा० अ० ५) इति । तथा च भौमानां रसानामुत्तरायण आदानं ग्रहणं कुर्वन्दक्षिणायने वृष्टिरूपेण तान्रसानासमन्ताद्ददच्च परिभ्रमन्यदादित्यशब्देन निरुच्यत एतदेव सत्यधर्मत्वमेष आदित्य एव सत्यधर्म इत्यर्थः । तदादित्यात्मत्वं शुक्लं शुद्धं भास्वरमिति वा । पुरुषं पुरुषाकारम्-'य एषोऽ. न्तरादित्ये हिरण्मयः पुरुषः ' (छान्दो० अ० १) इति श्रुतेः । अलिङ्गं स्वतो लिङ्गवर्जितं स्त्रीपुनपुंसकादिभेदरहितम् ' नैव स्त्री न पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेन तेन स युज्यते ' (श्वे० अ० ५) इति श्रुतेः । इदानी विष्णुत्वमस्योपपादयति
नभसोऽन्तर्गतस्य तेजसोऽशमात्रमेतद्यदादित्यस्य ____ मध्य इवेत्यक्षिण्यग्नौ चैतद्ब्रह्मैतदमृतमेतद्भर्गः । १ क. स्यापिहि। २ क. योऽस्मिन्नादि' । ३ क. 'मपि । ४ क. 'पञ्श्रीसू। ५ क. 'ष वै ।
For Private And Personal