SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [६ षष्ठः प्रपाठकः] मैञ्युपनिषत् । अपामापोऽनिरनौ वा व्योम्नि व्योम न लक्षयेत् । एवमन्तर्गतं यस्य मनः स परिमुच्यते ॥ अपामापोऽग्निरिति । यथेत्यध्याहारः । अपामिति षष्ठी सप्तमीत्वेन विपरिणेया प्रथमाश्च द्वितीयात्वेन । तथा चाप्सु यथा निक्षिप्ता अपः पृथङ्न लक्षयेत्कश्चिदग्नौ वाऽग्निं व्योम्नि वा प्रविष्टं घटाकाशाद्येवं यस्य मनोऽन्तर्गतमात्मैकतां गतं स परिमुच्यते सर्व संसारबन्धनादित्यर्थः । किं बहुना मनःकृतः संसारस्तद्विलयनाच मोक्ष इति निश्चित्य तन्निरोधे यत्नः कार्य इत्यभिप्रेत्योपसंहरति मन एव मनुष्याणां कारणं बन्धमोक्षयोः। बन्धाय विषयासङ्गि मोक्षे निर्विषयं स्मृतम् , इति ।। मन एवेति । स्पष्टार्थः । मनोनिरोधस्य चोपार्य व्यतिरेकोक्तिपूर्वकं विदधती प्रकृतमुपसंहरति अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां ब्रह्मणः पदव्योमानुस्मरणं विरुद्धं तस्मादग्निर्यष्टव्यश्चे तव्यः स्तोतव्योऽभिध्यातव्यः ॥ ३४ ॥ अतोऽननिहोत्रि. अभिध्यातव्य इति । अतो यस्मादनग्निहोत्रिणां यथोक्तविधाग्निहोत्रहीनानामनग्निचितां पञ्चेष्टक इत्याद्युक्तप्रकाराग्निचयनमकुर्वतामज्ञानां चित्तवृत्तान्तं संसारमोक्षहेतुमजानतामनभिध्यायिनां पूर्वोक्तसवितृमण्डलस्थात्माभिध्यानरहितानां पुंसां ब्रह्मणः पदमात्मतत्त्वं तदेव व्योम व्योमवन्निराकारत्वात्तस्यानुस्मरणमनुसंधानं विरुद्धं विशेषेण रुद्धं चित्ताशुद्धिक्षयाभावाद्ब्रह्मानुसंधानमशक्यमित्यर्थः । तस्मादित्यादि व्याख्यातम् ॥ ३४ ॥ इदानी पूर्वोक्ताग्निहोत्रमग्निचयनं' चानुतिष्ठतो ध्यायिनः स्तोतव्य इत्युक्तमग्न्यादित्योपस्थानं कैर्मन्त्रैः कार्यमित्यपेक्षायां तान्मन्त्रान्पठति नमोऽग्नये पृथिवीक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नमो वायवेऽन्तरिक्षक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नम आदित्याय दिविक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नमो ब्रह्मणे सर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि । नमोऽग्नये० सर्वमस्मै यजमानाय धेहीति । एतेऽग्न्युपस्थानमन्त्रा गार्हप. त्यादिक्रमेण त्रयो योज्याश्चतुर्थस्तु सर्वाग्निसाधारणोऽन्ते सकृत्प्रयोज्यः । पृथिवीक्षिते १ ग. मोक्षो । २ क. 'नं वाऽनु । ३ क. 'त्यायाग्निक्षि। ४ क. 'ते लोकम । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy