________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४५० रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ]
चित्तमेव हि संसारं तत्प्रयत्नेन शोधयेत् ।
यश्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ चित्तमेवेति । संसरत्यनेन पुमानिति वा संसरति पुरुषमभिभूय प्रवर्तत इति वा चितमेव संसारं तत्संसर्ग विना पुरुषस्य संसारादर्शनादित्यर्थः । तत्प्रयत्नेन शास्त्रोक्तशुभविषयनिवेशनं कृत्वा शोधयेन्निवृत्ताशुभवासनं संपादयेत् । यतो यच्चित्तो यस्मिनिवेशितचित्तः पुरुषः स तन्मयस्तत्स्वभावो भवतीत्येतद्गुह्यं प्राकृतबुद्ध्यगम्यं सनातनमव्यभिचारीत्यर्थः ।
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमव्ययमभुते ॥ चित्तस्य हीति । प्रसन्नात्मा प्रसन्नचित्तः । आत्मनि प्रत्यक्स्वरूपे । सुगममन्यत् ।
समासक्तं यथा चित्तं जन्तोविषयगोचरे ।
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ समासक्तमिति । स्पष्टार्थः ।
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
अशुद्धं कामसंपर्काच्छुद्धं कामविवर्जितम् ॥ मनो हीति । तस्मात्कामस्त्याज्य इत्यर्थः ।
लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् । __यदा यात्यमनीभावं तदा तत्परमं पदम् ॥ लयविक्षेपरहितमिति । लयो निद्रा विक्षेपो बहिर्विषयस्मृत्यादिः । अमनीभाव आत्मनो मनउपाधिप्रवेशकृतविशेषपरित्यागस्तं यदा याति तदा तदेव निरुपाधिकस्वैस्वरूपं परमं पदं याति । न पुनरप्राप्तप्राप्तिरस्येत्यर्थः ।
तावन्मनो निरोद्धव्यं हृदि याद्तक्षयम् ।
एतज्ज्ञानं च मोक्षं च शेषान्ये ग्रन्थविस्तराः॥ तावन्मनो निरोद्धव्यमिति । हृदि हृदयसाक्षिणि । गतः प्राप्तः क्षयो विनाशो येन तत्तथा । उत्तरार्धं स्पष्टार्थम् ।
समाधिनिधौतमलस्य चेतसो निवेशितस्याऽऽत्मानि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥ समाधीति । आत्मनि निवेशितस्य सत इत्यर्थः । अन्तःकरणेनान्तःकरणावस्थाप्ताक्षिणा गृह्यते स्वानुभवमात्रसिद्धं तन्नान्यस्मै वक्तुं शक्यमित्यर्थः ।
१ क, 'व हि सं। २ क. यनि । ३ क. 'स्वरू । ४ ग. वत्क्षयं गतम् । ५ क. 'वसि ।
६क.न्यस्य ।
For Private And Personal