________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ६ षष्ठः प्रपाठकः] मैन्युपनिषत् ।
४४९ दन्यो देहसंघाताद्विलक्षणो हृयन्तहृदय आदित्ये सवितृमण्डले च प्रतिष्ठितो वर्तते । केन केन रूपेणेत्यपेक्षायामाह-मद्गुर्जलचरः पक्षी स यथा जले निमग्न इव गच्छति तथा हृद्यात्मा जीवरूपः संपूर्णोऽपि यथावदनवभासनान्मद्गुसदृशः । हंसो मानससरोम्भोरुहवनविहारी पक्षिविशेषः । स यथा शुद्धस्तथाऽऽदित्ये पुरुषो ब्रह्मरूपो यतः स तेजोवृषस्तेजसा श्रेष्ठस्तेजोबहुल इत्यर्थः । तमेव पुरुषमुभयत्र वर्तमानमित्यध्याहारः । अस्मिन्नग्नौ यथोपदिष्टस्वरूपे यजामहे वयं पूजयाम इति मन्त्रस्यार्थः ।
इति चापि मन्त्रार्थ विचिनोति । । इतिशब्दो मन्त्रसमाप्त्यर्थः । इति च मन्त्रमुच्चार्यापि मन्त्रार्थमपीति योजना । विचिनोति विचारयति चिन्तयतीत्यर्थो धातूनामनेकार्थत्वात् । यद्वा विचिनोति विशेषेण मन्त्रतात्पर्यसंबद्धतया चिनोति संघट्टयतीत्यर्थः । तदेव तात्पर्यमुपन्यस्यति
तत्सवितुर्वरेण्यं भर्गोऽस्याभिध्येयं यो बुद्ध्यन्तस्थो ध्यायीह मनःशान्तिपदमनुसरत्यात्मन्येव धत्तेऽत्रेमे श्लोका भवन्ति । तत्सवितुः० भवन्तीति । सवितुरादित्यस्य संबन्धि तत्स्वरूपं वरेण्यं वरणीयं संभननीयं कीदृशं तद्भर्गः ‘भाभिर्गतिरस्य हि ' इत्यादिना (खं० ७) पूर्वत्र व्याख्यातरूपम् । अस्य यजमानस्याभिध्येयम् । यो बुद्ध्यन्तस्थो ध्यायी ध्याता हृदि प्रतिष्ठितो ध्यातेति चिन्तयदित्यर्थः । एवं कुर्वन्निह मनःशान्तिपदं मनसो विक्षेपपरित्यागेन शान्तिपदमालम्बनमनुसरति प्राप्नोति यत आत्मन्येव प्रतीचि ध्येयं रूपं . धत्तेऽनुसंधत्त इत्यर्थः । अत्रोक्तेऽस्मिन्नर्थ इमे वक्ष्यमाणाः श्लोका भवन्ति ।
यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते ।
तथा वृत्तिक्षयाचित्तं स्वयोनावुपशाम्यते ॥ यथा निरिन्धन इति । स्वयोनौ भूतसूक्ष्मलक्षणे स्वकारणे । तथा चित्तं स्वयोनौ खाधिष्ठाने साभासाज्ञानोपलक्षित उपशाम्यते शाम्यतीत्यर्थः ।
स्वयोनावुपशान्तस्य मनसः सत्यकामतः ।
इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥ स्वयोनाविति । इन्द्रियार्थविमूढस्य मनसः कर्मवशानुगा अनृता मिथ्याप्रवृत्तयो यास्ताः सत्यकामतो यथार्थात्मवस्तुन्युपरागात्स्वयोनावुपशान्तस्य पुनर्न प्रभवन्तीत्यध्याहारेण योजना।
यस्मादेवं तस्मात्१ क. 'रोम्बुरु' । २ क. 'रूपं य' । ३ क. 'वन्धत। ४ क. भजनीवं । ५ क. 'म्यति । त।
For Private And Personal