________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ६ षष्ठः प्रपाठकः ]
मैत्र्युपनिषत् ।
४५३
1
नभस इत्यादिना । नभसोऽन्तर्गतस्य दिमण्डलव्यापिनस्तेजसः प्रकाशस्यांशमात्रं लेशमात्रमेतद्यदादित्यस्य मध्य इवाऽऽदित्यमण्डलस्थमिव न तु तत्तत्रैव वर्तते किंतु सर्वव्यापीत्यर्थः । इत्येवंप्रकारेणाक्षिणि सर्वप्राणिचक्षुर्देशेऽग्नौ च प्रसिद्धेऽस्यैव तेजस ऽशमात्रमित्यर्थः । किं तत्तेजः । एतद्ब्रह्म परिपूर्णमत एवैतदमृतमनागमापायि I नित्यमिति यावत् । एतदेव भर्गः सर्वकारणत्वादिरूपं पूर्वं व्याख्यातम् । तेजस्तेजस्वि - नामहमिति भगवद्वचनात्सर्वत्रव्यापि तेजोरूपं ब्रह्मामृतं विष्णुरित्युक्तं भवति । एतत्सत्यधर्मो नभसोऽन्तर्गतस्य तेजसोंऽशमात्रमेतत् ।
इदानीमुक्तमेव स्वरूपमनूद्य तस्य सर्वात्मत्वमाविष्कुर्वती ध्येयविशेषमर्थादुपदिशति - एतत्सत्यधर्म इत्यादिना ।
यदादित्यस्य मध्येऽमृतं
किं तत्सत्यधर्मपदाभिधेयं तदाह - यदादित्यस्य मध्येऽमृतमिति । किं तदमृतं तदाह
यस्य हि सोमः प्राणा वाऽप्ययङ्कुरा एतद्ब्रह्मैतदमृतमेतद्भर्गः
यस्येति । सोमश्चन्द्रमाः । प्राणाः प्राणिनां जीवनाख्याः प्राणादिवृत्तयः । वाशब्दात्प्राणस्थित्यर्थमन्नं गृह्यते । एते सर्वेऽप्यमृतरूपाः पदार्था यस्याङ्कुराः कार्याण्यमृताङ्कुरकारणत्वादमृतमित्यर्थः । अव्ययङ्कुरा इति यकारः प्रमादपतितः । एतो त्यायुक्तार्थम् ।
अमृतात्मत्वमुपपाद्यास्य पुनरपि यजुरात्मत्वमाह -
एतत्सत्यधर्मो नभसोऽन्तर्गतस्य तेजसोंs - शमात्रमेतद्यदादित्यस्य मध्ये यजुर्दीप्यति । एतत्सत्यधर्म इति । यदादित्यस्य मध्ये यजुर्दीप्यति दीप्यते । किं तद्यजुरिति तदाह
ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ।
ओमाप इति । ओंकारोऽनुज्ञापनात् । आप्यायनादापः । प्रकाशनाज्ज्योतिः । रसः सर्वकर्मपरिपाकनिर्वृत्तत्वादादित्यस्य रसत्वं सर्वकर्मफलाश्रय इत्यर्थः । अमृतं देवानां मोदनहेतुत्वात् । ब्रह्म भूर्भुवः स्वरोमिति । त्रैलोक्यमोंकारार्थभूतमकारश्च सर्वमेतदेवेत्यर्थः । एतत्सर्वं छान्दोग्ये - ' असौ वा आदित्यो देवमधु' इत्यत्र मधुविद्यायां स्पष्टमाम्नातम् ।
अत्रैष श्लोक:
१ क. तत्रै । २ क. भिध्येयं । ३ क. 'रोमिति । अ ।
For Private And Personal
-