SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ६ षष्ठः प्रपाठकः ] मैत्रयुपनिषत् । एवं ध्यायतो यजमानस्यैतदनिकृतमुपकारमाहकरैर्यजमानमन्तरिक्षमुत्क्षिप्त्वा वायवे प्रायच्छत् । १४७ करैरिति । यजमानस्य परलोकगमनावसरे तं यजमानमग्निहोत्रणमुपासकं करैर्हस्तैरन्तरिक्षं प्रत्युत्क्षिप्त्वोत्क्षिप्य वायवे हिरण्यगर्भाय सूत्रात्मने प्रायच्छत्प्रयच्छतीत्येतत् । स्थूलवायुशङ्कां वारयति - माणो वै वायुः । प्राणो वै वायुरिति । प्राणश्च हिरण्यगर्भः सर्वश्रुतिषु प्रसिद्धः । इति गार्हपत्याग्निविषयं ध्यानं फलं चोक्तम् । इदानीं हिरण्यगर्भप्राणदृया दक्षिणाग्निध्यानप्रकारमाह माणोऽग्निस्तस्येमा इष्टका यः प्राणो व्यानोऽपानः समान उदानः स शिरःपक्षसी पृष्ठपुच्छवानेषोऽग्निः पुरुषविदस्तदिदमन्तरिक्षं प्रजापतेर्द्वितीया चितिः करैर्यजमानं दिवमुत्क्षिप्तवेन्द्राय प्रायच्छदसौ वा आदित्य इन्द्रः सैषोऽग्निस्तस्येमा इष्टका यहग्यजुःसामाथर्वाङ्गिरसा इतिहास : पुराणं स शिरःपक्षसीपुच्छपृष्ठवानेषोऽग्निः पुरुषविदः सैपा द्यौः प्रजापतेस्तृतीया चितिः करैजमानस्यात्मविदेऽवदानं करोत्यथाऽऽत्मविदुत्क्षिप्य ब्रह्मणे प्रायच्छत्तत्राऽऽनन्दी मोदी भवति ।। ३३ ।। For Private And Personal 1 प्राणोऽग्निरिति । तस्य प्राणरूपस्य दक्षिणाग्नेरिमा इष्टकास्ताः का इति ता भाह - प्राणादयः पञ्च वायवः शरीराभ्यन्तरचारिणो यथाक्रमं शिरआद्यवयवतया चितेष्टकारूपा इत्ययमप्यग्निः शिरःपक्षपुच्छपृष्ठवानित्यादि सर्वं पूर्ववद्योज्यम् । तदिदमन्तरिक्षमन्तरिक्षात्मको दक्षिणाग्निः प्रजापतेर्द्वितीया चितिः । करेरित्याद्यपि पूर्ववत् । कोऽसाविन्द्र इत्येतदाह - असौ वै प्रसिद्ध आदित्य इन्द्रः परमेश्वरः । सैषोऽग्निः स एष इन्द्रोऽग्निराहवनीयस्तस्येमा इष्टकाः सेतिहासपुराणाश्चत्वारो वेदाः पूर्ववत्क्रमेण शिरःप्रभृत्यवयवात्मना चितेष्टकारूपा ध्येयाः । इहापीतिहासपुराणयोरेकत्वं द्रष्टव्यम् । सैषा द्यौर्दिर्वैात्मकोऽयमाहवनीयोऽग्निः प्रजापतेस्तृतीया चितिः । अयं पुनरिन्द्रः सविता दिवाहवनीयाग्निरूपो यजमानस्याऽऽत्मविदे त्रैलोक्यात्मकः प्रजापतियजमानस्याऽऽत्मविद्यजमानेन त्रिष्वग्निष्वात्मत्वेन भावितस्तस्मा अवदानमवदानवत्तत्प्री * अदन्तो दिवशब्दोऽप्यस्ति तेनोत्वशङ्का न । १ क णोऽरानो व्यानः ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy