________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[६ षष्ठः प्रपाठकः] मैन्युपनिषत् ।
४४१ पित्तकफानां समन्यूनाधिकभाववशासितादिवोस्तासु भवन्ति तद्युत्पादनं तु वैद्यके सिद्धं तदेतदाह-सितेति । सिताश्चासिताश्च सितासिताः कफबाहुल्ये सिता वायुवाहुल्ये त्वसिता इत्यर्थः । कद्रवश्च नीलाश्च कद्रुनीला वायुकफयोः कुपितयोः संकरे कद्रवः कद्रुवर्णा ईपच्छ्यामा इत्यर्थः । पित्तवाय्वोः संकरे नीलवर्णाः । पित्ताधिक्ये कपिलाः । मृदवश्च ते लोहिताश्च मृदुलोहिताः । उदिक्तेन पित्तेनांशतो वायुकफयोर्योगान्मृदुलोहिता रश्मयो नाड्यन्तर्गता भवन्तीत्यर्थः । तथा च श्रुत्यन्तरम् - 'तस्मिशुलमुत नीलमाहुः पिङ्गलं हरितं लोहितं च' (बृहदा० अ० ६ ) इति । तथा नाडीः प्रकृत्य 'ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्य पूर्णाः' ( छान्दो० अ० ८ ) इति च ।
ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥ तेषां रश्मीनां मध्य एको रश्मिः सुषुम्नाख्य ऊर्ध्व ब्रह्मरन्ध्रपर्यन्तं स्थितः । कोऽसौ यः सुषुम्नाख्येन सूर्यरश्मिविशेषेणैकीभूतत्वात्सूर्यमण्डलं मित्त्वा स्थितः स इत्यर्थः । तेन रश्मिमार्गेण कार्यब्रह्मलोकं गत्वा तत्र भोगान्ते तमतिक्रम्य परां गति तद्विष्णोः परमं पदं शाश्वतं परं ब्रह्म यान्त्युपासका इत्यर्थः । __ "शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्न्या उत्क्रमणे भवन्ति" ( कठो ६ ) इत्यस्मिन्मन्त्रे तासां मूर्धानमभिनिःसृतका तयोर्ध्वमायन्नमृतत्वमेतीति पादद्वयस्यार्थमुक्त्वा प्रथमपादोपात्तशतरश्म्युपयोगमाह
यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् ।
तेन देवनिकायानां स्वधामानि प्रपद्यते ।। यदस्येति । अस्य हृदयस्य संबन्धि यद्रश्मिशतमस्ति तदप्यूर्ध्वमेवोर्ध्वगतिहेतुभूतमेव व्यवस्थितम् । तेन रश्मिशतेन निर्गतो देवनिकायानां देववृन्दानां स्वधामानि तत्तद्देवस्थानानि प्रपद्यते देवनिकायमध्ये यं देवविशेष यः कर्मणा विद्यया चोपास्ते स रश्मिशतस्यैकेने केनचिद्रश्मिना तस्य देवस्य पदं यातीत्यर्थः । विष्वङ्ङन्या उत्क्रमणे भवन्तीतिचतुर्थपादार्थमाह
ये नैकरूपाश्चाधस्तादश्मयोऽस्य मृदुप्रभाः।
इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ ये नैकरूपा इति । ये त्वस्य हृदयस्य रश्मयोऽनेकरूपा अधस्तादधोमुखा मृदुप्रभा अत्यल्पप्रकाशास्तमोबहुला रश्मयस्तैर्निर्गतः स विहितज्ञानकर्मसाधनरहितः पुमो
क. 'या वोपा । २ क. 'न रश्मि' । ३ क. 'मान्दुष्कर्मो ।
For Private And Personal