SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४० रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] न विचेष्टते नेङ्गते किंतु निर्वातदेशस्थप्रदीपवन्निश्चला भवतीत्यर्थः । येयमिन्द्रियमनोबुद्धीनां निश्चलावस्था तां परमां गतिं परमं ब्रह्मप्राप्तिसाधनमाहुर्ब्रह्मविद इत्यर्थः । इदानीं शाकायन्यस्य वृत्तान्तं कथयन्ती श्रुतिः सगुणब्रह्मोपासकानां ब्रह्मप्राप्तिद्वारमुपदिशति तच्चिन्तनार्थम् एतदुक्त्वाऽन्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वा यथावदुपचारी कृतकृत्यो मरुदुत्तरायणं गतो न ह्यत्रोद्वर्त्मना गतिरेषोऽत्र ब्रह्मपथः सौरं द्वारं भित्त्वोर्चेन विनिर्गता इत्यत्रोदाहरन्ति । एतदुक्त्वाऽन्तर्हृदय इत्यादिना ।एतदुक्तं सर्वं दर्शनं ससाधनमुक्त्वाऽन्तर्हृदयोऽन्तरात्मनि हृदयं बुद्धिर्यस्य सोऽन्तर्हृदयः शाकायन्य उपररामेत्यध्याहारः । मरुन्मरुनामा बृहद्रथस्तस्मै शाकायन्याय नमस्कृत्वा यथावदुपचारी यथाशास्त्रं शुश्रूषापूजाधुपचारपरः कृतकृत्योऽवाप्तकाम उत्तरायणं ब्रह्मपथं गतः सगुणनिर्गुणब्रह्मज्ञानमुपगत इत्यर्थः । न ह्यत्रोक्ततत्त्वनिष्ठायामुद्वमनोन्मार्गेण तिर्यगादिमार्गेण गतिर्गमनमस्तीति शेषः । यत एष उक्तविद्यारूपोऽर्थोऽत्र श्रेयोमार्गेषु ब्रह्मपथो ब्रह्मप्राप्तिमार्ग इत्यर्थः । अत्र “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येति" (शतप० ब्रा० का० १४ अ० ७) इति श्रुतेनिर्गुणब्रह्मात्मतत्त्वविदो नोत्क्रमणमस्तीत्येतत्सिद्धवत्कृत्य सगुणब्रह्मविदो ब्रह्मलोकमार्ग क्रममुक्तेरं विस्पष्टमाह श्रुतिःसौरमिति । सौरं द्वारं सूर्यमण्डलमध्यगतमविदुषामभेद्यं द्वारं मित्त्वा विदार्योनोपरितनेन विद्युदादिना विनिर्गता उपासका इत्यत्रास्मिन्नर्थे रश्मिविशेषनिर्धारणार्थमुदाहरन्ति श्लोकानिति शेषः । अथवा मरुदुत्तरायणं गत इति मरुन्नाम्नो राज्ञ एव वृत्तान्तः कथ्यते । तथा चायमर्थः । उत्तरायणं देवयानं पन्थानं गतः कालेनाऽऽरूढो न साक्षाकैवल्यमत्रैव गत इत्यर्थः । यदि साक्षान्मुक्तिं न प्राप तर्हि भोगान्ते संसारः स्यादित्यत आह-न ह्योति । अत्रोपासनायां सत्यामुद्वर्त्मना संसारमार्गेण पुनर्गतिर्गमनं न ह्यस्ति "न हि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति" इति भगवत्स्मरणात् । यत एष देवयानोऽत्रोपासनायां ब्रह्मपथो ब्रह्मणः परस्यापि क्रमेण प्रापकत्वाद्ब्रह्मपथ इत्यर्थः । सौरं द्वार भित्त्वाइँन विनिर्गतो मरुन्नामा राजर्षिः । अत्रोदाहरन्तीति पूर्ववत् । अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कद्रुनीलाः कपिला मृदुलोहिताः ।। तस्य रश्मयो निर्गमननाड्यश्चिदाभासव्याप्ता अनन्ताः । कस्य यो हृदि ध्यानकाले दीपवत्प्रकाशमान आत्मा स्थितस्तस्येत्यर्थः । आत्मनिर्गमननाड्यन्तर्गतानां रसानां वात १ क. 'श्चलीभ । २ क. 'र्गत ई। ३ क. ब्रह्मत' । ४ क. इत्यादि। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy