SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४२ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] न्दुःखकोपभोगायेहैव भूमावेवावशः सन्संसरति दुःखमनुभवतीत्यर्थः । तथा च श्रुत्यन्तरम् – 'य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशकम् (बृहदा० अ० ८ ) इति । सूर्यमण्डलान्तर्गतब्रह्मोपासनमुपसंहारव्यानेन प्रशंसति____ तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्य इति ॥ ३० ॥ तस्मादिति । असावादित्यो भगवानादित्यात्मनाऽभिव्यक्त ईश्वरोऽनुपासितः सन्सर्गहेतुरुपासितस्तु स्वर्गापवर्गयोहेतुः । देवताबुद्धयोपासितः स्वर्गहेतुर्ब्रह्मात्मनोपासितोऽपवर्गहेतुरिति विभागः ।। ३० ॥ समाप्ता शाकायन्यबृहद्रथाख्यायिका । इदानीं श्रुतिरेव प्रश्नप्रतिवचनरूपेण स्वरूपेण चेन्द्रियादितत्त्वं नामरूपात्मककार्यतत्त्वमित्याद्यनेकानान्प्रागनुक्तानुपदेष्टुं प्रवर्तते किमात्मकानि वा एतानीन्द्रियाणि प्रचरन्त्युद्गन्ता चैतेपामिह को नियन्तो वेत्याह प्रत्याहाऽऽत्मात्मकानीत्यात्मा ह्येषामुद्गन्ता नियन्ता वाऽप्सरसो भानवी. याश्च मरीचयो नामाथ पश्चमी रश्मिभिर्विषयानत्ति । किमात्मकानि० रश्मिभिर्विषयानत्तीति । एतानि ज्ञानकर्मार्थानीन्द्रियाणि किमात्मकानि वै किमुपादानकानीत्यर्थः । प्रचरन्ति स्वस्वविषयेष्विति शेषः । एषामिन्द्रियाणामुद्गन्तोद्गमनकर्ता च निमित्तभूतोऽधिष्ठाता च क इत्यर्थः । इह व्यवहारसमये को वैतेषामिन्द्रियाणां नियन्ता तैर्व्यवहर्ता वा को भवतीत्याह कश्चित्प्रष्टेत्यध्याहारः। कश्चिदन्यः प्रत्याह प्रत्युत्तरमाह प्रश्नक्रमेणेत्यर्थः । आत्मात्मकान्यात्मा वक्ष्यमाणलक्षणस्तदा. स्मकानि तदुपादानकानीत्यर्थः । इतीत्थमात्मा ह्येवैषामिन्द्रियाणामुद्गन्ता नियन्ता च नान्यश्च घटादेरिवेत्यर्थः । अप्सरस इति विषया उच्यन्ते, शब्दादयो हि विषयाः कामिनामप्सरस इव विषयिणामभिलाषगोचरा भवन्ति तेऽपीन्द्रियाणां नियन्तारः । तथा च बृहदारण्यके ग्रहातिग्रहशब्दाभ्यामिन्द्रियाणि विषयांश्चोक्त्वा-'श्रोत्रं वै ग्रहः स शब्देनातिग्रहेण गृहीतः' इत्यादिनाऽतिग्रहशब्दवाच्यविषयनियम्यत्वं ग्रहशब्दवाच्यानामिन्द्रियाणां समाम्नायते । तथा च विषयाश्चेन्द्रियाणां नियन्तार इत्यर्थः । भानवीयाश्च मरीचयः सूर्यकिरणाश्चेन्द्रियाणां नियन्तार इति नाम प्रसिद्धमेतदित्यर्थः । भानुशब्द उपलक्षणं सर्वेन्द्रियदेवतानां दिगाद्यानाम् । तैस्तैर्देवताविशेषैः केनचिबारेणानुगृहीतानीन्द्रियाणि स्वं स्वं विषयं ग्राहयन्तीति देवा अपि नियन्तार इत्यर्थः । अथैवं सति पञ्चभिः श्रोत्रादिभिर्ज्ञानेन्द्रियै रश्मिभी रश्मिशब्दनिर्दिष्टैर्विषयाशब्दादीनत्ति भुङ्क्तेऽयमात्मेति क. त्मका' । २ क. 'कार्था । ३ क. 'न्ता चेत्या' । ४ क. °न्तारः । भा। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy