________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४३४ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः] उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यश्चास्येहास्ति यच्च नास्ति सर्व तदस्मिन्समाहितम्' । (छा० अ० ८) इति । आनन्दयतीत्यानन्दम् । 'एष ह्येवाऽऽ. नन्दयाति' इति श्रुतेः । परमालयमासमन्ताल्लीयतेऽस्मिन्सर्वमित्यालयं परमं च तदा. लयं च परमालयं मुक्तिरूपमित्यर्थः । एवंभूतं यद्ब्रह्मरूपं तेजस्तदस्माकं स्वं स्वरूपं योगश्च युज्यत इति योगः फलं पुरुषार्थः सोऽप्येतदेवेति योजना । यत एवमतोऽस्य सर्वात्मकत्वादग्निसूर्ययोश्च तेन एतदेवेत्यर्थः । तथा च भगवद्वचनम्
"अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं प्रसिष्णु प्रभविष्णु च ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते" इति ॥ २७ ॥ इदानीमुक्तस्य ब्रह्मतेनस उपलम्भे योगविशेषमुपदिशति
अथान्यत्राप्युक्तं भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं धृतिदण्डं धनुर्गृहीत्वाऽनभिमानमयेन चैवेषुणा तं ब्रह्मद्वारपारं निहत्याऽऽधं अथान्यत्राप्युक्तं भूतेत्यादिना । भूतपदेन तत्संघातो देहो गृह्यते । इन्द्रियाणि प्रसिद्धानि । अर्थाः शब्दादयो विषयाः । देहेन्द्रियविषयानतिक्रम्य तेष्वहंममाभिमानं त्यक्त्वा ततोऽनन्तरं प्रव्रज्या संन्यास एव ज्या यस्य तत्प्रव्रज्याज्यं धृतिधैर्य दण्डः काण्डं यस्य तद्धतिदण्डमेवंविधं धनुर्गृहीत्वा धैर्यमास्थाय तस्मिन्नसङ्गतालक्षणां ज्यामारोप्येत्यर्थः । तस्मिन्धनुषि संहितेनानभिमानमयेन चकाराद्विवेकशितेन चेषुणैव विद्याचारकुलादिनिमित्ताभिमानपरित्यागात्मकेन दृग्दृश्यविवेकोपकृतेन च यथोक्तानभिमानमयेन यथोक्तविवेकतीक्ष्णेनेषुणेति यावत् । तमाद्यमिति संबन्धः । तं प्रसिद्धमाचं सर्वानर्थकारणमहंकाराख्यं ब्रह्मद्वारपारं हार्दस्य ब्रह्मणः प्राप्तिद्वारस्य पारं पालं रलयोरभेदावारनिरोधकरमित्यर्थः । एवंभूतं निहत्य हत्वा ब्रह्मशालां विशेदित्युत्तरत्र संबन्धः । संग्रहेणोक्तं विवृण्वती श्रुतिरहंकारस्य हन्तव्यत्वे हेतुं सूचयति
संमोहमौली तृष्णाकुण्डली तन्द्रीराघवेत्यभिमानाध्यक्षः क्रोधज्यं प्रलोभदण्डं धनुर्ग्रहीत्वेच्छामयन चैवेषुणेमानि खलु भूतानि हन्ति तं हत्वोंकारप्लवेनान्त
हृदयाकाशस्य पारं तीवाऽऽविर्भूतेऽन्तराकाशे शनकैः, संमोहेत्यादिना । संमोहो मिथ्याज्ञानं मौलिरुष्णीषमस्यास्तीति संमोहमौली । तृष्णा विषयचापलमीर्ष्या परोत्कर्षासहनं च कुण्डले यस्य विद्यते स तृष्णाकुण्डली ।
१ क. स्मिन्संन्यासल । २ क. संनिहि ।
For Private And Personal