________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
[६ षष्ठः प्रपाठकः]
मैन्युपनिषत् । तन्द्री सत्कर्मस्वालस्यमिरा निद्राऽवं पापं चेत्येतानि वेत्रं यष्टिविशेषो यस्य स तन्द्रीराघवेत्री । अभिमानः स्वोत्कर्षाभिनिवेशस्तस्याध्यक्षोऽधिष्ठाय प्रवर्तयिता प्रागुक्तोऽहंकारः साभासः स क्रोधज्याकं प्रलोभदण्डं धनुर्गृहीत्वेच्छामयेन स्वच्छन्दापरपर्यायवाच्यरूपेण चकारादविवेकनिशितेन चैवेषुणेमानि प्रसिद्धानि खलु भूतानि स्थावरज. गमात्मकानि हन्ति पीडयति तमेनं सर्वपीडाकरत्वाद्धन्तव्यं हेत्वोन्मूल्योंकारप्लवेन तरणसाधनेनान्तर्हृदयाकाशस्य सर्वजगदाश्रयतयाऽव्याकृतास्यस्य पारं परतीरं तदधिष्ठानं सर्वसाक्षिभूतं तीत्वा प्राप्याऽऽविभूतेऽन्तराकाशे ब्रह्माकारेऽभिव्यक्ते सति शनकैः शनैरसंभ्रमेण ब्रह्मशालां विशेदिति संबन्धः । शनैस्तदनुप्रवेशे दृष्टान्तमाह
अवटैवावटकुद्धातुकामः संविशत्येवं ब्रह्मशाला विशेत्ततश्चतुर्जालं ब्रह्मकोशं प्रणुदेद्गुर्वागमेनेत्यतः शुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः स्ने महिन्नि तिष्ठत्यतः स्वे महिम्नि तिष्ठ
मानं दृष्ट्वाऽऽवृत्तचक्रमिव संसारचक्रमालोकयतीत्येवं ह्याह । अवटैवेति । संधिवृद्धी छान्दसे । अवट इवेत्येतत् । यथा कश्चिद्धातुकामः सुवर्गादिधातूनन्तरभूमौ निहितान्कामयमानोऽवटकृद्गर्तकर्ताऽवटे तस्मिशनैः संविशति प्रकटी. भूतं धातुं पश्यन्नेवं प्रादुर्भूतब्रह्मशालां ब्रह्मप्रकाशस्थानं साक्षित्वेनावशेषितं प्रत्यगेकरसमात्मानं विशेत् । ततस्तत्प्रवेशानन्तरं चत्वारि जालान्युपर्युपरि वेष्टनानि यस्मिंस्तच्चतुर्नालं ब्रह्मकोशं ब्रह्मणः कोशवदाच्छादकमन्नमयप्राणमयमनोमयविज्ञानमयाख्यैश्चतुर्भिः कोशैः परिवेष्टितमानन्दमयकोशं प्रणुदेत्प्रेरयेद्भिन्द्यादिति यावत् । केन साधनेन गुर्वागमेन गुरूपदिष्टेनाऽऽगमेन वेदान्तवाक्येनाऽऽनन्दमयकोशाश्रयं ब्रह्मैव प्रत्यगात्मेत्यागमाचार्याम्यां निश्चित्य कोशेष्वात्माभिमानं त्यनेदित्येष क्रम इत्यर्थः । अतोऽनन्तरमतः कारणात्सर्वप्रतिबन्धनिवृत्तेरिति वा शुद्धः पूत इत्यादिविशेषणः स्खे महिम्नि तिष्ठति । अतोऽनन्तरं स्वे महिम्नि स्वस्वरूपे तिष्ठमानमवतिष्ठमानमात्मानं दृष्ट्वाऽऽवृत्तच. क्रमिव परावृत्तचक्रमिव संसारचक्रमालोकयति यथा रथादुत्तीर्णो रथचक्र परावृत्तव्यापारं दूरत एवावेक्षते कश्चित्तथा विद्वान्ब्रह्मसंपन्नः संसारचक्रं दूरादेवावलोकयति न पूर्ववत्वसंबन्धितयेत्यर्थः । इत्येवं ह्याह श्लोकाभ्यामुक्तमर्थजातमित्यर्थः ।
षभिर्मासैस्तु युक्तस्य नित्यमुक्तस्य देहिनः । अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ।
१ क. हत्या निर्मल्यो । २ क. 'त्मा मनसोऽध्यक्षः सि । ३ क. "मयादिभिश्च । ४ क. 'त्ययुक्त।
For Private And Personal