________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[१ षष्ठः प्रपाठकः] मैयुपनिषत् ।।
४३३ गुहाचरं नाम महत्पदम्' इति । तत्तेन एवमुक्तप्रकारमुद्दिश्यान्तर्हृदये हृदयपुण्डरीके यदाकाशं तदेकाग्रेण चित्तसमाधानेन विनुदन्ति विशेषेण नुदन्ति हृदयपुण्डरीकविकासनेन तत्स्थमाकाशमाविष्कुर्वन्तीत्यर्थः । एवं क्रियमाणे तस्याऽऽकाशस्य संबन्धि यज्ज्योतिरिव प्रकाश इव नित्यसिद्धमप्यावरणतिरोधानमात्रापेक्षयोद्भूतप्रकाश इव संपद्यति संपद्यतेऽभिव्यक्तं जायत इत्यर्थः । इति यतः स्वतः सिद्धं तेजोऽभिव्यज्यतेऽतस्तद्भावं तस्य तेजसो भावं स्वभावमचिरेणाल्पकालेन सद्य एवैति प्राप्नोत्युपासकः । तस्य प्रत्यग्रूपत्वेन नित्यप्राप्तत्वात्तदावरणतिरोधानमात्रमपेक्ष्य प्राप्तिरुपचर्यत इति भावः । तत्रोपाध्याकारप्रतिबन्धनिवृत्त्याऽचिरेण स्वस्वरूपापत्तौ दृष्टान्तमाह
___ भूमावयस्पिण्डं निहितं यथाऽचिरेणैति भूमित्वम् । भूमाविति । भूमौ निहितमन्तभूमौ निक्षिप्तमयस्पिण्डं पिण्डीभूतमयो यथाऽचिरेण भूमित्वं मृद्भावमुपैति गच्छति मृदेव भवतीत्यर्थः । तथा सम्यक्स्वरूपापन्नस्य पुनरनुत्थानमेवेत्यत्रापि दृष्टान्तमाह
__ मृद्वत्संस्थमयस्पिण्डं यथाऽग्न्ययस्कारादयो नाभिभवन्ति । मृद्वत्संस्थमिति । मृद्वत्साक्षान्मृत्तिकेव संस्था स्थितिर्यस्य तन्मृद्वत्संस्थम् । अत्र वतिप्रयोग उक्तिभङ्गीमात्रपरो मृदात्मना स्थितमित्यर्थः । यथा मृदात्मतां गतमयस्पिण्डमग्न्ययस्कारादयो नाभिभवन्त्यग्निना प्रागयस्पिण्ड इव तस्मिन्नभिव्यक्तप्रकाशेन न दह्यते न वाऽयस्कारैर्लाहकारैर्विकारी क्रियत इत्यर्थः । दार्टान्तिकमाह
प्रणश्यति चित्तं तथाऽऽश्रयेण सहैवमित्येवं ह्याह । प्रणश्यतीति । येथेमौ दृष्टान्तौ तथा चित्तं चित्तस्थश्चिदाभासो जीवाख्य आश्रयेणोपाधिना चित्तेन सह प्रणश्यति निराभासज्योतीरूपमापद्यत इत्यर्थः । यद्वा चित्तं साभासमन्तःकरणमाश्रयेण वासनात्मकलिङ्गेन सह प्रणश्यति प्रकर्षेण नश्यत्युच्छि. नसंस्कारं भवति पुनर्नोत्पत्त्यहँ भवतीत्यर्थः । एवमेवैतन्नान्यथेत्येवमर्थमाह श्लोक इत्यर्थः ।
हेद्याकाशमयं कोशमानन्दं परमालयम् ।
स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः ॥ २७ ॥ हृद्याकाशमयमाकाशवदसङ्गं यद्वा हृदये यदाकाशं तत्स्वरूपं हृयाकाशमयम् । कोशो भाण्डागारस्तद्वत्सर्ववस्त्वाश्रयत्वात् । कोशमिव कोशं लिङ्गव्यत्ययश्छान्दसः । तथा च हार्दाकाशं प्रकृत्य श्रुत्यन्तरम्—'उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते
१ क. 'तिबिम्बनि । २ ग. मात्रो मृ। ३ क. यथोभौ । ४ क. 'मेत' । ५ क. हृदयाका। ६ क. च हृदाका ।
For Private And Personal