________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४३२
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः] ब्रह्मापरिमितधा चाऽऽत्मानं विभज्य देवतियङ्मनुष्यादिभेदेनाविद्ययाऽऽत्मानमनेकधा विभज्येमालोकान्पूरयतीत्येवं ह्याह ।
वह्वेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य ॥
प्राणादयो वै पुनरेव तस्मादभ्युञ्चरन्तीह यथाक्रमेण ॥ २६ ॥ वहेश्च यद्वदिति । पूर्वार्धं स्पष्टार्थम् । प्राणादयो वै प्रसिद्धाः पुनरेवेति सुषुप्तिप्रल. ययोः प्रलीनाः पुनः पुनस्तस्मादभ्युच्चरन्तीह प्रबोधसृष्ट्योर्यथाक्रमेण पूर्वसृष्टिक्रमेणेत्यर्थः । तथा च श्रुत्यन्तरे– 'यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति' ( बृहदा० अ०४ ) इति ॥ २६ ॥
इदानी प्रकारान्तरेण हृद्यन्तोतिषमात्मानमुपलम्भयन्सफलामात्मनिष्ठामुपदिशति
अथान्यत्राप्युक्तं ब्रह्मणो वावैतत्तेजः परस्यामृतस्य । अथान्यत्राप्युक्तमित्यादिना । ब्रह्मणो वाव परमात्मन एवैतद्वक्ष्यमाणं तेजः । किंलक्षणस्य परस्य सर्वदृश्यस्वभावातीतस्यात एवामृतस्य जन्मादिमरणान्तविक्रियारहितस्येति यावत् । स्वतः परममृतमपि ब्रह्मतेनः शरीरसंबन्धाद्विपरीतं स्यादित्यतो विशिनष्टि----
अशरीरस्योष्ण्यमस्यैतद्धृतम् । अशरीरस्येति । शरीरसंबन्धरहितस्य । न हि निरवयवस्यासङ्गस्य जतुकाष्ठवच्छ. रीरसंश्लेषोऽस्तीति भावः । एवंविधस्य ब्रह्मणो वावैतत्तेज इति संबन्धः । किं तदित्याह-यच्छरीरस्यौष्ण्यं शरीरसंबन्ध्याग्नेयं यदौष्ण्यमुपलभ्यते स्पर्शनेन प्रत्यक्षेण यद्ब्रह्मणस्तेज इत्यर्थः । तथा च च्छान्दोग्ये-'यदतः परो दिवो ज्योतिर्दीप्यते' इत्युपक्रम्य 'इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिस्तस्यैषा दृष्टियत्रैतदस्मिञशरीरे संस्पशेनोष्णिमानं विजानाति' इति । अस्य तेजस एतत्प्रसिद्धं शरीरं घृतम् । अनेन हि तद्ब्रह्मतेजोऽन्यत्राप्रकाशमानमग्निरिव घृतेन दीप्यते ।
एवं सामान्येन देहगतोष्ण्यात्मना ब्रह्मतेनः संभावनापदं नीतमिदानीं तस्य साक्षात्कारपदवीमुपदिशति
अथाऽऽविः सन्नभसि निहितं वैतदेकाग्रेणैवमन्तहृदयाकाशं विनुदन्ति यत्तस्य ज्योतिरिव संपद्यतीत्यतस्तद्भावमचिरेणीति अथाऽऽविः सनिति । अथैवं संभावितं तत्तेज आविः प्रकटं सन्नभसि हृदयाकाशे निहितं स्थितं वै निश्चितं सर्वश्रुतिप्वेतदित्यर्थः । तथा च मुण्डके-'आविः सन्निहितं
१ क. त्मविद्याम।
For Private And Personal