SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ६ षष्ठः प्रपाठकः] मैञ्युपनिषत् । . अथान्यत्राप्युक्तं यथेत्यादिना । यथा वा लोके कश्चिच्छाकुनिकः शकुनोपजीवी किरातकैवर्तादिरप्सुचारिणो मत्स्यादन्सूित्रयन्त्रेण जालसूत्रेणोद्धृत्योदर उदरस्थेऽग्नौ जुहोति जाठराग्निसाकरोत्येवं वावैवमेव खल्विमान्प्राणाञ्जलचरस्थानीयान्देहान्तर्विचरतः सर्वानेव मुख्यामुख्यरूपानोमित्यनेनाक्षरेण जालसूत्रस्थानीयेन सर्वार्थसंग्रहसमर्थेनोनृत्य पृथक्कृत्यानामये निर्दोषे ब्रह्मात्माग्नौ जुहोति तदात्मसात्करोतीत्यर्थः । उद्धृत्य होमे दृष्टान्तमुक्त्वा हुतस्याग्निग्रस्ततयाऽग्निमयत्वे दृष्टान्तमाह अतस्तप्तोर्वीव सः । - अतस्तप्तोर्वीव स इति । अतो होमानन्तरं स आत्मरूपोऽनामयोऽग्निस्तप्तोर्वीवोवीशब्देनोवीनं भाण्डमुच्यते यथा धर्मे महावीराख्यं भाण्डं तप्तं तादृशः स इत्यर्थः । · दृष्टान्तं विवृणोति अथ यथा तप्तोर्विसर्पिस्तृणकाष्ठसंस्पर्शेनोज्ज्वलतीत्येवं वाव खल्वसावप्राणाख्यः प्राणसंस्पर्शेनोज्ज्वलति । अथ यथेति । तप्ता, उर्वी, आधारो यस्य तत्तप्तोर्वि तच्च तत्सर्पिश्चेति विग्रहः । तद्यथा तृणादिसंस्पर्शेनोज्ज्वलत्यूद्धज्वालं जायत एवमित्यादिदा न्तिकोक्तिः । एवं वावैवमेव खल्वप्तावप्राणाख्यः प्राणादिसंघाताद्विविक्ततया प्राणाख्यामलभमान आत्माग्निः प्राणसंस्पर्शेनोज्ज्वलति प्रकटी भवतीत्यर्थः । एतदुक्तं भवति यथा संतप्ते भाण्डे विद्यमा. नोऽप्यग्निर्न स्वरूपेण संदृश्यते घृतेनोद्दीपितः संस्तैदक्ततृणादिसंबन्धे यथावदृश्यत एवमसावात्मा देहसंस्थो न यथावदवभासते प्राणादिप्रपञ्चप्रविलापने सति विलीयमान. प्रपञ्चानुगतचिदाभासद्वारा यथावदवभासत इति । अथवा पूर्वोक्तस्याऽऽत्मनो यदग्निरू. पकत्वमुक्तं तदृष्टान्तेन प्रपञ्चयति-तप्तोर्वीव स इत्यादिना । तप्तोर्विशब्देन तत्स्थं घृतं लक्ष्यते, तद्यथा वोा सह तप्यमानं स्वसंसर्गि सर्वं तृणादिकं संतपदमिजलत्येवमयमप्राणाख्य आत्मा चिदाभाप्तव्याप्तं देहद्वयं संतपस्तत्संसृष्टं सर्वमेव जगदभिज्वलयति प्रकाशयतीत्यग्नित्वेन रूपकमुक्तमिति । अस्यैव सर्वोत्पत्तिस्थितिलयकारणत्वेन सर्वात्मत्वमाविष्करोति अथ यदुज्ज्वलत्येतद्ब्रह्मणो रूपं चैतद्विष्णोः परमं पदं चैतद्रुद्रस्य रुद्रत्वमेतत्तदपरिमितधा चौss स्मानं विभज्य पूरयतीमाल्लोकानित्येवं ह्याह । अथ यदुज्ज्वलतीति । एतद्ब्रह्मणो हिरण्यगर्भस्य स्रष्ट्र रूपं स्वरूपं विष्णोः पालकस्य परमं पदं स्वरूपमेतदेव च रुद्रस्य संहत रुद्रत्वं स्वरूपमेतदेव तदात्मरूपं १ क. ति जठ। २ क. वीबीजं । ३ क. 'स्तद्युक्त। ४ क. वाऽऽत्मानं । ५ क. 'तदा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy