SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [६ षष्ठः प्रपाठकः] मैत्र्युपनिषत् । १२९ 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' (गी०) इति स्मृतेर्मूलभूतेन वाक्येन प्रकाशमात्रमस्य स्वाभाविकं स्वरूपं सर्वत्रोपलक्षणीयमित्यभिप्रेत्याऽऽह __ यदमुष्मिन्नादित्येऽथ सोमेऽनौ विद्युति विभा त्यथ खल्वेनं दृष्ट्वाऽमृतत्वं गच्छतीत्येवं ह्याह । यदमुष्मिन्निति । अथैवं ब्रह्मात्मदर्शनसमये खल्वेनमात्मानं दृष्ट्वा ब्रह्माभेदेन साक्षात्कृत्यामृतत्वं गच्छति मुक्तो भवतीत्येवं ह्याहेति पूर्ववत् । ध्यानमन्तः परे तत्त्वे लक्ष्येषु च निधीयते । अतोऽविशेषविज्ञानं विशेषमुपगच्छति ॥ अन्तः प्रतीचि सर्वान्तरे परे तत्त्वे परे ब्रह्मणि ध्यानं निधीयते लक्ष्येषु च प्रथम शरीरप्रणवमनस्तल्लयस्थानेषु च ध्यानं निधीयते क्रियते कुर्यादित्यर्थः । अतो ध्यानादविशेषविज्ञानमस्फुटोऽनुभवो विशेष स्फुटत्वमुपगच्छति । स्फुटतरसाक्षात्कारोदये सति यदात्मनाऽवस्थानं सा मुक्तिरित्येतदाह मानसे च विलीने तु यत्सुखं चाऽऽत्मसाक्षिकम् । तद्ब्रह्म चामृतं शुक्रं सा गतिर्लोक एव सः॥२४॥ मानस इति । मानसे मनःपरिणामरूपेऽहंकारग्रन्थौ विलीने प्रलयं गते चकारात्तद्वासनायां च विलीनायाम् । तुशब्दः सुषुप्तर्विशेषणार्थः । यत्सुखं चकाराद्धेतुमत्त्वशङ्का व्यावय॑ते । नित्यं यत्सुखमात्मसाक्षिकं स्वयमेव स्फुरन्न वेद्यमिति यावत् । तदेव ब्रह्म चकारादात्मा च । कीदृशममृतमविनश्वरं शुक्रं दीप्तिमज्ज्ञानस्वभावम् । यदेवंविधं ब्रह्मात्मतत्त्वं सा गतिः पुरुषार्थः । स एव लोकः फलं सर्वसाधनानामित्यर्थः ॥ २४ ॥ इदानीमुक्तां विद्यामनूद्य तद्वन्तं प्रशंसन्विद्यामेव मही करोति अथान्यत्राप्युक्तं निद्रेवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वम इव यः पश्यतीन्द्रियबिलेऽविवशः प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्यु विशोकं च सोऽपि प्रणवाख्यः प्रणेता भारूपो विगतनिद्रो विजरो विमृत्युविशोको भवतीत्येवं ह्याह । अथान्यत्राप्युक्तमित्यादिना । निद्रेव निद्रित 'इव सुषुप्त इवान्तहितेन्द्रियः प्रविलीने. न्द्रियवृत्तिन निद्रावानित्यर्थः । तथा स्वप्न इव स्वप्नदृगिवेन्द्रियबिल इन्द्रियाणां निवासस्थाने १ क. रे च ब । २ ग. धीयते । ३ क. रीरं प्र। ४ क. 'षु ध्या। ५ ग, 'नं धी। ६ क.ये यदा' । ७ क. 'शेषार्थः । ८ क. विधब्रह्मत' । ९ क. 'विनाशः । १० ग, इव चान्त । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy