________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४२८
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] शून्यभूतो निराकारत्वान्निविशेषः । तत एवंविधमात्मानं ब्रह्म मूर्ध्नि स्थाने सर्वोत्कृष्टे हृदयस्थानेऽथवा भ्रुवोर्घाणस्य च यः संधिः सोऽविमुक्ताख्यः श्रुत्यन्तरे प्रसिद्धस्तस्मिन्मूर्ध्नि स्थानेऽभ्यसेयायीतेत्यर्थः ।। २३ ॥
पूर्वोक्तप्रकारेण यथानिर्दिष्टं ब्रह्मोपासितवतो गतिं साधनविशेषोपदेशपूर्वकमाह । यद्वा 'द्वे वाव ब्रह्मणी अभिध्येये' इत्यस्मिन्ननुवाके स्वमतेन शब्दब्रह्म प्रणवाख्यमुक्तं तनिष्ठायां प्रकारविशेषमुपदिशन्नुपासनाफलप्रकारमाह
अथान्यत्राप्युक्तं धनुः शरीरमोमित्येतच्छरः शिखाऽस्य मनस्तमोलक्षणं भित्त्वा तमोऽतमाविष्टमागच्छत्यथाऽऽविष्टं भित्वा अथान्यत्राप्युक्तं धनुरित्यादिना । धनुः कोदण्डः प्रसिद्धं शरीरम् । ओमित्येतदक्षरं शरः, अस्य शरस्य शिखाऽयं शल्यस्थानीयं मनः, तमो भ्रान्तिज्ञानं लक्षणं सद्भावज्ञापकं यस्य तत्तमोलक्षणं तमो मूलाज्ञानं भित्त्वा शरप्रयोगेण लक्ष्यतमोभेदनं कृत्वा । अतमाविष्टं संधिश्छान्दसः । अतमआविष्टं तमआवेशनरहितं संघाताद्विविक्तमात्मानमागच्छति मनोरूपं शराग्रं तस्मिन्निवेशयतीत्यर्थः । एतदुक्तं भवति सम आसन आसीनः सममूर्ध्व धृतं शरीरं धनुरिव किंचिद्वक्षसि चिबुकारोपणेनाऽऽयम्य तस्मिन्प्र. णवं घोषवन्तं शरमिवाऽऽविष्कृत्य तस्य नादलयस्थाने मनः शरशल्यमिव बद्ध्वा तेन प्रणवशराग्रेण मनसाऽऽवरणं सविक्षेपमज्ञानं विदार्य तदाश्रयविषयतयोपलक्षितमात्मानं प्रवेशयेत्तन्मन इति । अथानन्तरमाविष्टं पूर्वमज्ञानाविष्टमात्मानमहंकारास्पदं भित्त्वा द्रष्ट्ररूपं दृश्यसापेक्षं विदार्य ब्रह्मापश्यदिति संवन्धः । तस्य ब्रह्मण आत्माभेदत्वख्यापनाय पुंलिङ्गैविशेषणैस्तद्विशिनष्टि
___ अलातचक्रमिव स्फुरन्तमादित्यवर्णमूर्जस्वन्तं ब्रह्म : अलातेत्यादिना । अखण्डाकारस्फुरणेऽलातचक्रदृष्टान्तः । आदित्यवर्णमिति सर्वदृश्याभिभावकप्रकाशात्मत्वमादित्यरूपसादृश्यमुच्यते । जनस्वन्तम! रसस्तद्वन्तमानन्दरसमिति यावत् । तथा च श्रुतिः 'रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति' (तैत्तिरीयो०) इति । . .
तमसः पैर्यमपश्यत् । तमसः पर्यमिति । परत्रेतं पर्यं पारं तमसः परस्तादतमस्कमित्यर्थः । एवंभूतमात्मानं ब्रह्मापश्यत्पश्यतीत्यर्थः ।
* आत्मनेपदं चिन्त्यम् ।
१ क. 'लप्राप्ति । २ क. णं तादृशं त । ३ क. परम। ४ क. परमि। ५ क. 'ति । अतमस्क।
For Private And Personal