________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४२७
[ ६ षष्ठः प्रपाठकः ] मैन्युपनिषत् ।
दृष्टिनिवाते वदतीति तं पृथग्लक्षणमतीत्य परेऽशब्देऽव्यक्ते ब्रह्मण्यस्तं गतास्तत्र तेऽपृथग्धर्मिणोऽपृथग्वि
वेक्या यथा संपन्ना मधुत्वं नाना रसा इत्येवं ह्याह । यथेति । नद्यो नदीनां घोषः । किङ्किणी घण्टाघोषः । कांस्यं तत्पात्रघोषः । चक्रकं रथचक्रध्वनिः । भेकविःकृन्धिका मण्डूकरवः । वृष्टिर्वर्षणशब्दः । निवाते गुहायां कूपे वा वदति वदनमुपरिस्थितेन श्रूयमाणं सोऽप्येकः प्रकारः । एतैर्ध्वनिभिः सहशो योऽन्तराकाशशब्दस्तं शब्दब्रह्मापरे वदन्तीत्यर्थः । इतिशब्द उपमेत्यनेन पूर्वेण संबध्यते । तमेवमन्तहृदये श्रूयमाणं पृथग्लक्षणमनेकोपमानैरनेकधा विभाव्यमानं शब्दमतीत्य परेऽशब्देऽव्यक्ते वाचामगोचरे ब्रह्मणि शुद्धेऽस्तं गता अदर्शनं प्राप्तास्ते शब्दब्रह्मवादिन इत्यर्थः । तत्र परे ब्रह्मणि तेऽपृथग्धर्मिणो ब्रह्मैकस्वभावा अत एवा. पृथग्विवेक्याः पृथग्विवेत्तुमशक्याः पूर्ववद्भेदोलेखायोग्या इत्यर्थः । तत्रायं दृष्टान्तो यथा नानारसाः पृथक्स्वभावकुसुमरतो यथा मधुत्वं मध्वात्मत्वं संपन्नाः सन्तो न पृथग्विवे. क्यास्तद्वदित्यर्थः । एवं ह्यत्रोदाहरणमाह श्रुतिः ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ २२ ॥ द्वे ब्रह्मणी इति श्लोकः स्पष्टार्थः ॥ २२ ॥ उक्तमेव शब्दाशब्दब्रह्मरूपं विभज्याशब्दब्रह्मस्वरूपं विशदयति
अथान्यत्राप्युक्तं यः शब्दस्तदोमित्येतदक्षरं यदस्याग्रं तच्छान्तमशब्दमभयमशोकमानन्दं तृप्तं स्थिरमचलममृतमच्युतं
ध्रुवं विष्णुसंज्ञितं सर्वापरत्वाय तदेता उपासीतेत्येवं ह्याह । अथान्यत्राप्युक्तं य इत्यादिना । यदोमित्येतदक्षरं तच्छब्दः शब्दाख्यं ब्रह्मेति योजना । यदस्य प्रणवाख्याक्षरस्याग्रं नादावसानस्थानं तच्छान्तं निर्विशेषमशब्दमशब्दाख्यं परं ब्रह्म । अभयमित्यादीनि तस्य स्वरूपलक्षणार्थानि विशेषणानि स्पष्टार्थानि । सर्वापरत्वाय सर्वस्मादपरत्वाय मोक्षाय तदेता एते उक्तलक्षणे ब्रह्मगी उपासीतेत्येवमस्मिन्नर्थे ह्याह ।
योऽसौ परापरो देवा ओंकारो नाम नामतः ।
निःशब्दः शून्यभूतस्तु मानि स्थाने ततोऽभ्यसेत् ॥ २३॥ योऽसौ प्रसिद्धः परश्चापरश्च परापरब्रह्मदृश्यहत्वाद्देवः परं ब्रह्म । कः । ओंकारो नाम नामतो योऽयं प्रसिद्धः स शब्दब्रीत्यर्थः । यस्तु निःशब्दः परं ब्रह्माशब्दाख्यं
क. कविक । २ क. ख. "सा म । ३ क. मव्यय । ४ क. अव्यय' ।
For Private And Personal