________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२६
रामतीर्थविरचितदीपिकासमेता - [ ६ षष्ठः प्रपाठकः ]
ओंकारः शब्दाख्यं ब्रह्म । अनेन सर्वार्थवाचकसर्वशब्दव्यापकतया पूर्णत्वेनोद्धृत्याभ्यस्तेन साधनेनानेन शब्दब्रह्मणोर्ध्वं प्रपञ्चादुपर्युत्क्रान्त उद्गतो वाच्यवाचकरूपं सर्व वेद्यजातमतिक्रान्तः सन्नशब्दे परे ब्रह्मणि निधनं नद्य इव समुद्रे लयमेति प्राप्नोति । यैवमशब्दे वाचामगोचरे ब्रह्मण्येकतापत्तिरथ तदैषी हि (ह) गतिः परमं फलम् । एतदे - वामृतममृतत्वं मोक्षः । एतत्सायुज्यत्वं सायुज्यं सयुग्भावस्तादात्म्यमिति यावत् । निर्वृतत्वं परमानन्दाविर्भावः कृतकृत्यत्वमित्यर्थः । इतिशब्दः शब्दाशब्दब्रह्मोपदेशसमाप्त्यर्थः : ।
Acharya Shri Kailashsagarsuri Gyanmandir
उक्तेऽर्थे दृष्टान्तमाह
अथ यथोर्णनाभिस्तन्तुनोर्ध्वमुत्क्रान्तोऽवकाशं लभतीत्येवं वाव खल्वसावभिध्यातोमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते ।
अथेति । अथास्मिन्नर्थे दृष्टान्तो यथोर्णनाभिता कीटस्तन्तुना स्वमुखाल्लालानिर्मितेनाविच्छिन्नेन सूत्रेणोर्ध्वमुपरिदेशं प्रत्युत्कान्तोऽवकाशं निरङ्कुशविहारस्थानं लभति लभत इति प्रसिद्धं जन्त्वन्तरसाधारणदेशशाबल्यं परित्यज्या साधारणं निर्भयमवकाशं प्राप्नोतीत्यर्थः । एवं वावैवमेव खलु यथाऽयं दृष्टान्तस्तथाऽसावभिध्यातोमित्यनेन शब्दब्रह्मणा साधनेनोर्ध्वमुत्क्रान्तो ऽहं ममतास्पदशाबल्या द्विमुक्तः स्वातन्त्र्यं कैवल्याख्यं लभत इत्यर्थः ।
एवं प्रणवाख्यशब्दब्रह्माभ्यासोऽशब्दपरब्रह्माविर्भावसाधनमिति स्वमतमुक्त्वा मतान्तरमाह
अन्यथा परे शब्दवादिनः ।
अन्यथेति । परे शब्दवादिनः शब्दब्रह्मवादिनः शब्दमाकर्णयन्तीत्यन्वयः । कथमिति तदाह
श्रवणाङ्गुष्ठयोगेनान्तर्हृदयाकाशशब्दमाकर्णयन्ति सप्तविधेयं तस्योपमा ।
१ श्रवणेति । कर्णयोरङ्गुष्ठं (छौ) योजयित्वा कर्णयोरङ्गुष्ठाभ्यां पिधानेनान्तर्हृदये य आकाशोऽवकाशस्तत्रत्यं शब्दमाकर्णयन्ति तं शब्द शब्दब्रह्मेति मन्यन्त इत्यर्थः । तस्य श्रूयमाणस्यान्तर्हृदयाकाशस्थ्घोषस्येयं वक्ष्यमाणा सप्तविधोपमोपमानं भवति ।
तामेवाऽऽह
यथा नद्यः किङ्किणी कांस्यचक्रेकमेकविःकृन्धिका
१. बाग । २क. युज्यं । ३ क. 'था श' । ४ क. कांस्यं च । ५ क. क्रकं । ६ क 'विधि' |
For Private And Personal