SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [६ षष्ठः प्रपाठकः ] मैत्र्युपनिषत् । । १२५ नोऽग्रादुपरि तात्वन्तो रसनाग्रं निवेश्योपरिस्तनाकारमभिभूयेति यावत् । इन्द्रियाणि संयोज्य प्राणमनोभ्यामेकीकृत्योत्क्रमेदिति पूर्वेणान्वयः । एवमुत्क्रमणे यो महिमा परिच्छेदनिवृत्त्या पूर्णतारूपस्तं महिमानं निरीक्षेतानुभवेत् । ततस्तस्मानिरीक्षणान्निरात्मकत्वं निरिन्द्रियमनस्कत्वं निर्लिङ्गत्वमेति प्राप्नोति निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं कैवल्यं मोक्षं लभत इत्येवमर्थ ह्याह मन्त्र इत्यर्थः । इन्द्रियाण्यसंयोज्येति पाठ इन्द्रियायतनानां शरीरावयवानां मनःप्राणाभ्यामसंबन्धनमुपदिश्यत इति व्याख्या । एतदुक्तं भवति प्रागुक्तप्रकारेण योगधारणया युक्तो ब्रह्मोपासीनो यदा योगसाम_त्ताल्वन्तःसंचारितसुषुम्नानाडीकस्तत्रैव कथंचित्परमात्मतत्त्वमवगच्छति तदोन्मनीभावेन परममुक्तेरयत्नलभ्यत्वं जानस्तत्रैव यावज्जीवं ब्रह्ममयोऽवतिष्ठेत । ततः प्रारब्धक्षये देहविगमे परमं महिमानं परममुक्तिलक्षणं गच्छति । यदा पुनः प्रागुक्तं स्थानं योगमहिम्ना प्राप्नोति ब्राह्मलौकिकैश्वर्यविहाराभिलाषस्तदोर्ध्वमुक्तप्रकोरणोत्क्रम्य महिमानं ब्राह्मलौकिकं निरीक्षेत ततः क्रमेण केवलत्वं कालेन लभत इति । परः पूर्व प्रतिष्ठाप्य निगृहीतानिलं ततः । तीत्वा पारमपारेण पश्चाद्युञ्जीत मूर्धनि ॥२१॥ परः पूर्वमिति । पूर्वमभ्यासदशायां निगृहीतानिलं वशीकृतप्राणं परः परस्तात्तालुदेशे प्रतिष्ठाप्य स्थिरीकृत्य ततः पश्चात्पारं परिच्छिन्नं जीवभावं तीवोल्लङध्य पश्चादपारेणापरिच्छिन्नेन ब्रह्मणा तद्रूपेणाऽऽत्मानं मूर्धनि ब्रह्मरन्ध्रे युञ्जीत योजयेत् । मूर्धद्वारा ब्रह्मभावं नयेदित्यर्थः ॥ २१ ॥ इदानी प्रकारान्तरेण ब्रह्मप्राप्त्युपायमुपदेष्टमुपक्रमते अथान्यत्राप्युक्तं द्वे वाव ब्रह्मणी अभिध्येये शब्दश्चाशब्दश्चाथ शब्देनैवाशब्दमाविष्क्रियतेऽथ तत्रोमिति शब्दोऽनेनोर्ध्वमुत्क्रान्तोऽशब्दे निधनमेत्यथा(थ)हैपा गतिरेतदमृतमेतत्सायुज्यत्वं नितत्वं तथा चेति । अथान्यत्राप्युक्तं द्वे वावेत्यादिना । द्वे वावैव ब्रह्मणी अभिध्येये । के ते । शब्दश्चैकं ब्रह्माशब्दश्च द्वितीयम् । किं ते द्वे अपि स्वतन्त्रे न किं तूपायोपेयरूपे इत्याह-अथानयोब्रह्मणोर्यः शब्दस्तेन शब्देन ब्रह्मणाऽशब्दं ब्रह्माऽऽविष्क्रियते प्रकटी क्रियतेऽनभिव्यक्तितिरोधानमात्रेणेत्यर्थः । किं शब्दब्रह्म कथं वा तेनाशब्दं ब्रह्माऽऽविष्क्रियत इति तदाह-अथैवं सति तत्र तयोर्द्वयोर्मध्य ओमिति शब्द १ क. 'दननि' । २ क. मन्त्रः । इन्द्रि । ३ क. 'त्तित्त्वतः सं । ४ क. "नि । द्वे । ५ क. 'सायोज्य। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy